Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
काव्यमाला।
श्रीजिनप्रभसरिविरचितः सिद्धान्तागमस्तवः।
सावचूरिः। ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् ।
स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः ॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां खशैक्षशिष्यादिपठनविलोकनायर्थ यमकश्लेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः । तेष्वयं सर्वसिद्धान्तस्तवो बहूपयोगिलाद्विवियते--
नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ १ ॥ गुरुभ्यः श्रुतदेवतायै सरखसै सुधर्मणे च पञ्चमगणधराय नला । त्रिषु नतिक्रिया । 'अभिप्रेयवाचतुर्थी' इति सूत्रेण संप्रदानाच्चतुर्थी । श्रुतभक्तिप्रेरितोऽहं निरुद्धा रुद्धा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यैस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि ॥
सामायिकादिकषडध्ययनखरूप
मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिभाष्यवरचूर्णिविचित्रवृत्ति
स्पृष्टीकृतार्थनिवहं हृदये वहामि ॥२॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुर्विंशतिस्तव-वन्दनकतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम् । शिवरमाया (मोक्षलक्ष्म्याः ) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रबाहुकृता एकत्रिंशच्छतप्रमाणा । भाष्यं सूत्रार्थप्रपञ्चनम् । वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता । विचित्रवृत्तिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टीकृतोऽर्थनिवहो यस्य तथाविधं हृदये वहामि स्मरामि ॥
युक्तिमुक्ताखातिनीरं प्रमेयोर्मिमहोदधिम् ।
विशेषावश्यकं स्तौमि महाभाष्यापरायम् ॥ ३ ॥ १. स्तोत्रस्यास्यैकमेवाष्टपत्रात्मकं सटीकं पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनीनां सकाशादधिगतम्. तच नातिशुद्ध शतवर्षप्राचीनमिवानुमीयते तदाधारेणैतन्मुद्रणं विहितमस्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166