Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
ठकुर- सोमेश्वरदेव - विरचिता कर्णामृत प्रपा
सुभाषितावली
यं पद्मा सेवते पद्माशयेव जलशायिनम् । स वः करोतु कंसारिः संसारव्ययमव्ययम् ॥१॥ तं स्मरामि स्मरामित्रं येनास्मि स्मरणादपि । शुभानामशुभानां च कर्मणामणीकृतः ॥२॥
अन्तर्सम्पापातनिर्मुक्तदेहान् __ मानूद्ध गच्छतोऽनुच्छलन्ती। अन्वेतीव लेहतः सीकराणां
श्रेणिर्यस्यास्तामहं नौमि गङ्गाम् ॥ ३॥ कष्टानष्टापि निर्विश्य रसांस्तष्वद्य नीरसः। श्रीकुमारसुतो ब्रूते पिपासुनवमं रसम् ॥ ४ ॥
विषयरसनिरन्तरानुपान
प्रकुपितमोहकफोपगुम्फितात्मा । त्रिकटुकगुटिकामिव त्रिवेदी
वदनगतामहमन्वहं वहामि ॥५॥ यो यः प्रादुरभूद् भावो भवं भावयतो मम । स स बद्धो मृषा-मायाबद्धं बोधयितुं जगत् ॥ ६॥
संसारोऽयमसारः प्रसिद्धमेतत् तथापि कथयामि । जागर्यते हि सुप्तः पुनः पुनः साधु बोधाय ॥७॥ अहो! संसारकारान्तर्मायानिगडितात्मनाम् । दृश्यते जातु जन्तूनां निवृतिर्न कथञ्चन ॥ ८॥ केचिद् द्युम्नाय धावन्ति प्रद्युम्नाय च केचन । नोयुके कोऽपि धर्माय सर्वाभिप्रेतहेतवे ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54