Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा कामं करोतु सुजनेऽपि रुजं कुजन्मा
यस्मादसौ जगति वक्र इति प्रसिद्धः। त्वां तु ब्रवीति सवितारमिनं च मित्रं
लोकस्तदर्क ! किमु तापयसि त्वमेनम् ॥ १३५A ॥ सर्वे स्थ हे विहङ्गाः ! कथयत मित्राणि मे द्वयोरेकम् । स्थानं वा सततदिनं प्राणानां त्यागमार्ग वा ॥ १३५B ॥
पुनः फलन्त्यस्तफला अपि द्रमाः . सरांसि रिक्तान्यपि यान्ति पूर्णताम् । दृढं विधायाढ्यचरैर्मनस्ततः ।
प्रतीक्षणीयः समयः समृद्धये ॥१३६॥ पाथेयमत्ति पान्थः सच्छायं दूरतोऽपि तरुमेत्य । निजमपि सुखेन भोक्तुं शक्यं हि सदाश्रयेणैव ॥ १३७॥
अतिपिशुने पिशुनत्वं जनयन्नपि जगति जायते सुजनः । विषमाभोगे रोगे दाहोऽपि हितः शरीराय ॥ १३८॥ धनिके निधनमुपेते तद्भार्यायाः पुरोऽधमणेन । किल दुःखितेन रुदितं मुदश्रुमिश्राक्षियुगलेन ॥ १३९ ॥
खेट ! प्रसिद्धिर्यदिह ग्रहाणां _बभूव युक्तं प्रतिभाति तन्मे । यस्मादमी शिष्टजनेऽप्यनिष्टां
दशां दिशन्ते तिलमुष्टिलुब्धाः ॥ १४० ॥ दूरस्थः पथि याति जल्पति पतिद्विष्टैः क्रियोपक्रमे
दृष्टिं मुञ्चति भोजनाय यतते यः स्त्रीषु विभ्राम्यति । ज्ञानीव प्रहितो महालसतया ब्रूते स्थितो निर्णयं - शेते वक्ति च भूरिकुण्ठमतये वण्ठाय तस्मै नमः॥१४१॥ चिन्तायामपि नेच्छयाऽभिगमनं स्वस्मै न पाकक्रिया
लब्धं कृच्छ्रशतैरपि प्रतिदिनं पात्रप्रदेयं धनम् । एवं पूर्वमनीषिभिः प्रतिहतखैरप्रचारे पथि प्रक्रीडन्ति कृतेन्द्रियप्रियतया ये केपि तेभ्यो नमः॥१४२॥
क०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54