Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 29
________________ ठक्कुरसोमेश्वरदेवविरचिता स्वयं श्रीरायातु प्रकृतिचपला यातु यदि वा शिवाः कश्चिद् वाचो वदतु यदि वा वक्तु विरसाः। तथाऽप्येते भ्रातर् न खलु विलसामो न च वयं विषीदामो द(दामोदरचरणचर्यासु रसिकाः ॥ १५९॥ अननं नश्चेतः प्रणतिशतलभ्यास्तु विभवा__ श्चटुग्राह्यः खामी वयमपि समीचीनवचसः। तदस्माभिर्लोकव्यवहृतिविभिन्नप्रकृतिभि वितृष्णं श्रीकृष्णे हृदयमिदमाबद्धमधुना ॥ १६० ॥ चित्तं यस्य न तप्यते परिभवैर्यः श्वेव पिण्डार्थितां कर्तुं कामयते विवेकविकलान् स स्वामिनः सेवताम् । यस्तस्मिन् विजिहीर्घरच्युतपदे क्लेशाञ् जिहासुश्च यः सोऽस्माकं सविधे वसिष्ठवचनाधीनात्मनां तिष्ठतु ॥१६१ ॥ वित्ताय त्वरतां स्त्रियै विकुरुतां प्रक्रीडतु कुध्यतु द्वेष्टु लिह्यतु वा स एष विषयव्याकृष्टचित्तो जनः। एतत् सर्वमतात्त्विकं तु विदता वेदोपदेशान्मया ह्यस्मिन्नेव मनः समाहितमिदं नित्योदिते ज्योतिषि ॥ १६२ ॥ १२. अथोपदेशाः। सखेऽयमिन्द्रियग्रामः स्वैरित्वादनिवारितः। घनच्छन्न इवादित्यः पश्चात्तापं करिष्यति ॥ १६३ ॥ चित्तं दमय मा कूर्च वृत्तं संस्कुरु मा वपुः । गीतां शृणु च मा गीतं पुरुषं पश्य मा स्त्रियम् ॥ १६४ ॥ महती मोहनिद्रेयमहो विषयिणां नृणाम् । यदेते शोचतामुच्चै क्रन्दैरपि जाग्रति ॥ १६५ ॥ जन्म सन् मन्यतां तस्य तीर्णस्तेन महार्णवः। कर्तुं यागं च योगं च येनारण्याग्रहः कृतः॥ १६६ ॥ अपलप्य सज्जनानां रहसि कुबुद्धे ! कुकर्म किं कुरुषे । पश्यति शरीरवत्ती पुरुषः किं नैष चरितं ते ॥ १६७ ॥ कृष्णीकृतैः किमेभिर्जरसा कल्माषितैः कचैर्व्यसनिन् !। आत्मानमेव कृष्णीकुरु पुरुषध्यानयोगेन ॥ १६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54