Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 39
________________ ठकुरसोमेश्वरदेवविरचिता खयमुत्पादितां लक्ष्मी पुत्रीमिव मनीषिणः। दत्वा पात्राय तद्दानफलमेवोपभुञ्जते ॥१०॥ पित्राद्यैरुपभुक्ता या पुत्राद्यैरपि भोक्ष्यते। कामयन्ते न तां सन्तो ग्रामवेश्यामिव श्रियम् ॥ ११॥ तस्करैर्वा दुरीशैर्वा हृतं संसहते धनम् । कदर्यो नैव सत्कार्ये कल्पयत्यल्पमप्यदः ॥१२॥ अन्धा एव धनान्धाः स्युरिति तथ्यं तथाहि ये। अन्योक्तेनाध्वना गच्छन्त्यन्यहस्तावलम्बिनः॥१३॥ धनी धनात्यये जाते दूरं दुःखेन दूयते । दीपहस्तः प्रदीपेऽस्ते तमसा बाध्यतेऽधिकम् ॥१४॥ आदावेव विकारं यः प्रदर्शयति देहिनाम् । भवोच्छेदैकभावेभ्यो विभवः खाद्यते स किम् ? ॥१५॥ न संसारस्य वैरस्यमिदं वेत्ति जडो जनः । यत् सुखं स सुखाभासो यद् दुःखं दुःखमेव तत् ॥१६॥ रमयन्ति मनस्तावद् भावाः संसारसम्भवाः । यावन्न श्रूयते साश्रुलोकपूत्कारकाहला ॥१७॥ अहो ! देहभृतां मोहः प्ररोहति महानयम् । यदेते सुखमिच्छन्ति विषयैर्दुःखहेतुभिः ॥१८॥ छत्रच्छायाच्छलेनामी धात्रा चक्रे निवेशिताः। भ्रमन्तोऽपि स्वमात्मानं मन्वते स्थिरमीश्वराः॥१९॥ मदान्धास्ते परं लोकं कथं पश्यन्तु भूभुजः। तमोमण्डलमध्यस्थाश्छत्रच्छायाच्छलेन ये ॥२०॥ सुखं विषयसेवेति सक्तास्तत्रैव जन्तवः । यः प्रमोदस्तु तत्त्यागात् तदाखादः कचिद् यदि ॥२१॥ अवश्यं नश्वरे देहे दुर्दमे च यमे द्विषि । हास्यमास्याद् विनिर्याति यत् पुंसामिदमद्भुतम् ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54