Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
३२
ठक्कुर सोमेश्वरदेवविरचिता
विद्युदञ्चलचलाचलां श्रियं सन्निवेश्य सचिवेषु साधुषु । संप्रहारभरसंभृतश्रमाः शेरते सुखममी क्षमाभुजः ॥ ३, ६३ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥ ३, ६८ जायते जलदवृन्दवृष्टिभिः शाखिनां सफलता शनैः शनैः । तुष्यतां क्षितिभृतां नु दृष्टिभिस्तत् क्षणादपि नृणां फलोदयः ॥ ३, ६९ नास्ति तीर्थमिह पार्थिवात् परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं संपदेति च समीहिता सताम् ॥ ३,
७०
येन केन च सुधर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ ३, ६४ न सर्वथा कश्चन लोभवर्जितः करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥ ३, ७५
*
बलिमाऽप्यरिणा रणप्रवृत्तौ सुभटानां हि पदानि सम्मुखानि ॥
*
विमृशन् बहुशोऽपि सन्दिहानो न जनो निश्चिनुते स्थितिं गतिं वा ॥ जलधिर्विगत्तैरुपागतैः स्यान्नहि भिद्योद्ध्यजलैः क्षयी चयी वा ॥
असक्तमासक्तमभीप्सितेऽर्थे कालातिपातं नहि वेत्ति चेतः ॥
*
महात्मनामीहितकार्यसिद्धौ विधिर्विधित्ते हि सदानुकूल्यम् ॥
*
न केवलं स्वेन कृतार्थतेन परैः कृतायैः कृतिनः कृतार्थाः ॥
*
उपक्रमे पुण्यकृतां क्रियाणां राभस्यमभ्यस्यति को न साधुः ॥
स्वभावशुद्धाः सुधियो हि तेषां पावित्र्यलाभाय तथापि लोभः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e9a4d9544fbd7cf465ad1e72f93ad810f9664383349eadf4ac256ae3f26fc9e0.jpg)
Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54