SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ ठक्कुर सोमेश्वरदेवविरचिता विद्युदञ्चलचलाचलां श्रियं सन्निवेश्य सचिवेषु साधुषु । संप्रहारभरसंभृतश्रमाः शेरते सुखममी क्षमाभुजः ॥ ३, ६३ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥ ३, ६८ जायते जलदवृन्दवृष्टिभिः शाखिनां सफलता शनैः शनैः । तुष्यतां क्षितिभृतां नु दृष्टिभिस्तत् क्षणादपि नृणां फलोदयः ॥ ३, ६९ नास्ति तीर्थमिह पार्थिवात् परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं संपदेति च समीहिता सताम् ॥ ३, ७० येन केन च सुधर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ ३, ६४ न सर्वथा कश्चन लोभवर्जितः करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥ ३, ७५ * बलिमाऽप्यरिणा रणप्रवृत्तौ सुभटानां हि पदानि सम्मुखानि ॥ * विमृशन् बहुशोऽपि सन्दिहानो न जनो निश्चिनुते स्थितिं गतिं वा ॥ जलधिर्विगत्तैरुपागतैः स्यान्नहि भिद्योद्ध्यजलैः क्षयी चयी वा ॥ असक्तमासक्तमभीप्सितेऽर्थे कालातिपातं नहि वेत्ति चेतः ॥ * महात्मनामीहितकार्यसिद्धौ विधिर्विधित्ते हि सदानुकूल्यम् ॥ * न केवलं स्वेन कृतार्थतेन परैः कृतायैः कृतिनः कृतार्थाः ॥ * उपक्रमे पुण्यकृतां क्रियाणां राभस्यमभ्यस्यति को न साधुः ॥ स्वभावशुद्धाः सुधियो हि तेषां पावित्र्यलाभाय तथापि लोभः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy