SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा कालेन शौनिकेनेव नीयमानो जनः पशुः । क्षिपत्येष धिगासने मुखं विषयशाद्वले ॥ २३ ॥ कायः कर्मकरोऽयं तन्नात्र कार्याऽतिलालना । भृतिमात्रोचितो ह्येष प्रपुष्टो विचिकीर्षते ॥ २४ ॥ प्रयोजकान्यकार्येषु नश्यन्त्याशु महापदि । दुर्मित्राणीव खान्येव बन्धुवुद्धिरधीमताम् ॥ २५ ॥ योऽयं जीवित भूतेषु स्नेहग्रन्थिः सुतादिषु । विभागावसरे पुंसां व्यक्तः सोऽपि भविष्यति ॥ २६ ॥ दुःखाग्निर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायाति देहिनामविवेकिनाम् ॥ २७ ॥ अविद्यामेव सेवन्ते हन्त ! विद्यां व्युदस्य थे । ते दूत्यामनुरज्यन्ते वरारोहाविहायिनः ॥ २८ ॥ तटस्थः प्रेक्षते योगी जगदस्मिन् भवार्णवे । मज्जनोन्मज्जने कुर्वद् दुष्कृतैः सुकृतैर्निजैः ॥ २९ ॥ विषयामिषमुत्सृज्य दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ बिभ्यत् तेभ्यः पलायते ॥ ३० ॥ सत्यं संसृतिगर्तेयं दुःखैः पूर्णा निरन्तरम् । यतस्तद्व्यतिरेकेण नान्यत् किश्चिदिहाप्यते ॥ ३१ ॥ विधौ विध्यति सक्रोधे वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायतां गतिः ॥ ३२ ॥ प्रकीर्णसूक्तानि हृप्यनुजाः क्षितिभुजः श्रियमर्जयन्ति नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावलीं जलधयो जनयन्ति किन्तु संस्कारमत्र मणिकारगणः करोति ॥ २, ११३ Jain Education International * For Private & Personal Use Only ३१ www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy