Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 35
________________ २६ ठक्कुरसोमेश्वरदेषविरचिता कामं कर्म पुरा शुभं न कृतमित्यस्मिन् महादुस्तरे दुःखान्धौ पतितोऽस्मि साधु तदिदं धर्माद्धि शर्मागमः । चिन्त्यं किन्तु तदीश ! भुवनत्राणक्षमोऽप्याश्रितं यन्मज्जन्तमुपेक्षसे त्वमिह मां किं तेन सा वाच्यता ॥ २०७॥ या काsपि त्वदुपासनव्यसनिता तां वेत्सि चान्तर्गतो जाता यत् सुकृपा तवैव जगदुद्धर्तु त्वमेकः क्षमः । एवं सत्यपि सत्यलोकसदन ! त्वत्सेवकोऽयं जनः खिन्नो याति गृहान्तरेषु किमियं नेर्ष्याऽपि लज्जाऽपि ते ॥२०८ अन्तः संततमत्सरव्यतिकराः क्षोणीश्वराः सन्तु वा निर्मर्यादमुदीरयन्तु यदि वा दोषानलीकान् खलाः । दैवं वाऽपि विरुद्धमस्तु दधतामत्युग्रतां वा ग्रहा भक्तिश्चेत् त्वयि भक्तवत्सल ! ततः क्षेमक्षितिनैव मे ॥ २०९ ॥ विपदपसृता श्रीरायाता हताः परिपन्थिनः फलितमखिलैर्निः पर्यायं मनोरथपादपैः । यदमृतसरस्तीरे रङ्गत्तरङ्गमनोज्ञया तव धवलया दृष्ट्या दिष्ट्या गिरीश ! निरीक्षितः ॥ २९० ॥ न तं मनो वनोद्देशं दग्धुं भवदवः क्षमः । यत्रास्ति हृतसंतापः कृष्णो मेघ इवोन्नतः ॥ २११ ॥ सूनुः सच्चरितः सती सहचरी स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेशलेशं मनः । आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टपदुःखहारिणि हरौ संपद्यते देहिनाम् ॥ २१२ ॥ स मे क्षणः कदा यत्र वीक्ष्यस्त्वमसमेक्षणः । हिमालयात्मजाकान्त ! विराजन्नहिमालया ॥ २९३ ॥ Jain Education International * दामोदर ! श्रीधर ! कृष्ण ! केशव ! श्रीवत्स ! विश्वम्भर ! भक्तवत्सल ! अस्मिन्नगाधे भवसागरे हरे ! मज्जामि मज्जाम्यहमुद्धरोद्धर ॥ २१४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54