Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा १३. अथ श्रीकृष्णप्रार्थना। कृतानि पुण्यानि मया न पूर्वमेवंविधां तेन दशां गतोऽस्मि । संप्रत्यहं त्वां शरणं प्रपन्नो यद् रोचते तत् कुरु देवदेव ! ॥१९७॥ तवाग्रतो देव ! निजामवस्थां पुनः पुनर्विज्ञपयन् बिभेमि । परं त्वमेकोसि पतिस्त्रिलोक्यास्तदर्थये नाथ! कमन्यमत्र ॥१९॥ कर्तुं नवं भगवतः स्तवमक्षमोऽहं
मोहं विहाय न भजामि भवन्तमेव । यद्यतया हृदयवासनयाऽसि तुष्ट___ स्तद्विष्टपाधिप ! कृपां कुरु पुत्रकेऽस्मिन् ॥ १९९ ॥ दुःकृतं कृतमपि व्यपोहसि त्वं मदीयमिदमच्युतः स्मृतः। नाथा तत्प्रथममेव मे कथं कापथान्न कुरुषे मनः पृथक् ॥ २०॥ हृषीकैर्विहितं कर्म हृषीकेश ! हरख मे। खामी भृत्यापराधानामपनेता यतः स्मृतः ॥२०१॥
अयमहमयताऽऽत्मना कृतेन
प्रतिकुलमाकुलितोऽस्मि कश्मलेन । विपदपहरणप्रवीण ! तन्मे
कुरु करुणामरुणानुजध्वज ! त्वम् ॥ २०२॥ स्वामिन् ! न कुप्यसि हरे ! यदि तद् बदामि
तुल्यस्त्वया न खलु कर्मकरः परोऽस्ति । संसारिणां स्मृतिभृतेश्चिरसंभृतं यद्
दुःकर्मपुञ्जमपसारयसि त्वमेकः ॥ २०३ ॥ बध्नाति श्रीतनयः श्रीपतिरखिलं विमोचयत्येतत् । पुत्रकृते ह्यपराधे पितैव कुरुते प्रतीकारम् ॥ २०४ ॥ अनन्यसदृशं द्वन्द्वं तदेतदिह दृश्यताम् । न संसारसमो रोगो न गोविन्दसमो भिषक् ॥ २०५ ॥ दौस्थ्ये त्राता भये पाता पातके पविता च यः। अस्मन्मनसि वास्तव्यः सोऽस्तु कौस्तुभलाग्छमम् ॥ २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54