Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा सन्तः कथं नाम न ते नमस्या _वृता वृषस्यन्त्यपि यैर्न लक्ष्मीः । वयं विरक्तामपि तां तु भोक्तु
मसक्तमासक्तिपराश्चरामः॥१८॥ मनोऽस्ति मुक्तावनुरक्तमेत। न्न सोमपानेन विना पुनः सा । तत् तु श्रिया सिद्ध्यति तेन तस्यै गतस्पृहोऽपि स्पृहयालुरस्मि ॥ १९॥
२. अथ कामः। येषां न चाटुरचना न च दृग्विलासो ___ वासोविभूषणगणप्रणयश्च नाङ्गे । पुष्पायुधः पशुषु तेष्वपि दुर्निवारः
स्फारः कथं न स भविष्यति मानवेषु ॥ २० ॥ सृष्टाः कस्मात् कुवलयदृशश्चेत् तदर्थं प्रकामः
कामः पुंसां किमिह विहितः सोऽपि कामः कृतो वा। सत्संभोगात् किमथ मलथूद्भावितं तद् विधातः ! सोऽयं जातस्त्वदुपजनितो मानवानामनर्थः ॥ २१॥
हिनस्ति हा मां कुसुमायुधोऽय. मेह्येहि चक्रायुध ! रक्ष रक्ष । त्वदाश्रिते ताम्यति मय्युपेक्षा
रक्षासमर्थस्य न युज्यते ते ॥ २२ ॥ यावद् यावदुपास्महे स्मरपरीतोषाय तास्ताः स्त्रियस्- तावत् तावदसावसाधुरधिकं दन्दह्यते मानसम् । तस्मिद्भटभालचक्षुषि विभौ ध्यातेऽतिमर्मस्पृशाम् । . अस्माकं हृदयादयं कथमपि त्यक्त्वा खयं प्रस्थितः॥ २३ ॥ करे यष्टिष्टं किमपि नयने न प्रभवते
नतो गल्लाभोगः पतितदशनत्वादयमपि । तदस्मादब्रीडस्थविर ! विरम त्वं स्मरसुखात् स्मर श्रीवत्सार्वं जगति गतिरेषा हि रुचिरा ॥ २४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54