SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा सन्तः कथं नाम न ते नमस्या _वृता वृषस्यन्त्यपि यैर्न लक्ष्मीः । वयं विरक्तामपि तां तु भोक्तु मसक्तमासक्तिपराश्चरामः॥१८॥ मनोऽस्ति मुक्तावनुरक्तमेत। न्न सोमपानेन विना पुनः सा । तत् तु श्रिया सिद्ध्यति तेन तस्यै गतस्पृहोऽपि स्पृहयालुरस्मि ॥ १९॥ २. अथ कामः। येषां न चाटुरचना न च दृग्विलासो ___ वासोविभूषणगणप्रणयश्च नाङ्गे । पुष्पायुधः पशुषु तेष्वपि दुर्निवारः स्फारः कथं न स भविष्यति मानवेषु ॥ २० ॥ सृष्टाः कस्मात् कुवलयदृशश्चेत् तदर्थं प्रकामः कामः पुंसां किमिह विहितः सोऽपि कामः कृतो वा। सत्संभोगात् किमथ मलथूद्भावितं तद् विधातः ! सोऽयं जातस्त्वदुपजनितो मानवानामनर्थः ॥ २१॥ हिनस्ति हा मां कुसुमायुधोऽय. मेह्येहि चक्रायुध ! रक्ष रक्ष । त्वदाश्रिते ताम्यति मय्युपेक्षा रक्षासमर्थस्य न युज्यते ते ॥ २२ ॥ यावद् यावदुपास्महे स्मरपरीतोषाय तास्ताः स्त्रियस्- तावत् तावदसावसाधुरधिकं दन्दह्यते मानसम् । तस्मिद्भटभालचक्षुषि विभौ ध्यातेऽतिमर्मस्पृशाम् । . अस्माकं हृदयादयं कथमपि त्यक्त्वा खयं प्रस्थितः॥ २३ ॥ करे यष्टिष्टं किमपि नयने न प्रभवते नतो गल्लाभोगः पतितदशनत्वादयमपि । तदस्मादब्रीडस्थविर ! विरम त्वं स्मरसुखात् स्मर श्रीवत्सार्वं जगति गतिरेषा हि रुचिरा ॥ २४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy