SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ठकुरसोमेश्वरदेवविरचिता वरं सा संसारप्रणयभयभीता हुतवहं सह प्राणेशेन प्रविशति परंभीरुरपि या। अमी धीरंमन्याः क्षणिकसुखसंतुष्टमनसः सहन्ते हन्तमानपि निपततो न स्मरशरान् ॥ २५ ॥ मनस्तापं तन्वन्नवय[व]विकारान् विरचयन् खमेवादी क्रोधः कवलयति पश्चादरिजनम् । ततश्चेतस्त्यक्त्वा सपदि विपदामास्पदमिमां क्षमा क्षेमागारं भज विजयसे विश्वमनया ॥ २६ ॥ ३. अथ लोभः। शूद्राणां पुरु(र)तः कृताञ्जलिपुटाः कुर्वन्ति सेवाममी भूदेवाः क्षितिपाः प्रजासु च कृपामुज्झन्ति दृष्ट्वा श्रियम्। पुत्रे मित्रजनाय चाश्रयवते द्रुह्यन्ति यन्मानवाः सर्वोऽप्येष गुणापकर्षणरुचे लोभ ! प्रभावस्तव ॥२७॥ ४. अथ कलिस्वरूपम् । सुकृतकृतमतः परं प्रवृत्त्या प्रसर कले! सकलेऽपि निर्भयस्त्वम् । विपणिषु वणिजां पुरोऽपि विप्रा विदधति वेदविचारविप्लवांस्ते ॥ २८॥ तातः परख-परदार-परक्षतार्थी मातापनीतपरिणीतपतिश्च येषाम् । यत् तेऽपि वर्मणि वहन्ति निवेशितं त्वां हा ! ब्रह्मसूत्र ! विधिनाऽसि विडम्बितं तत् ॥ २९ ॥ लब्धे यत्र वसुन्धरामरतया मयेऽपि संकीर्त्यते . गाधेयः किल सोऽप्यगाधमहिमा चक्रे न किं यत्कृते । निःसन्ध्याविधयो निरक्षरमुखा निब्रह्मसूत्राः कलौ ब्राह्मण्येन वहन्ति हत! कतिचित्तेनापि लज्जां द्विजाः॥३० गोपीचन्दनतिलकैनवोपवीतैः सितांशुकैर्विमलैः। धूर्ताश्चरन्ति केचन जन्मभिरिह केवलं मलिनैः॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy