SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा गेहं गोमयलिप्तमुप्ततुलसीदूर्वावणं प्राङ्गणं वंशालम्बितशुक्लधौतवसनं मुक्तोदपात्रं पुरः। साक्षाद् दर्भतिलाक्षतस्थितियुतं व्यक्तीकृतं......... विप्राणां गृहिणीपदे कुलवधूमन्या पणस्त्री पुनः॥ ३२॥ कलिद्विजेभ्यः प्रणतोऽस्मि तेभ्यः पुष्णन्ति यत्नेन निरन्तरं ये। कायव्रतार्थं जरती सवित्री पुत्रीं च कन्यामिह विक्रयार्थम् ॥ ३३॥ ऐदंयुगीनस्य जनस्य वृत्तै__ रुक्तै [:] श्रुतै किमिहास्ति कार्यम् । उपाधिसिद्धा बहिरस्य मैत्री खभावसिद्धस्तु विरोधभावः ॥ ३४ ॥ वदसि मधुरां वाणी पाणिद्वयं मुहुरानते शिरसि रचयस्युर्वी सर्वी घिनोषि धनैर्यदि। सरलविरलः कोऽपि श्लाघां करोति तथाऽपि ते न हि परगुणानेष स्तौति स्वभावखलो जनः ॥ ३५॥ अथवा शान्तं पापं खात्मन एव प्रवर्त्यतां चिन्ता। अविचारितरमणीयैः कृतमेतैर्लोकवृत्तान्तैः ॥ ३६॥ पीतास्ते दिवसाः प्रसाद्य सुचिरं यत्रानमन्मौलिभिर् भूपालैर्गलितस्पृहा अपि धनं विप्राः प्रतिग्राहिताः।। तान्येतानि दिनानि संप्रति पुनर्येष्वर्थयन्तोऽपि ते वित्तं प्रत्युत नामुवन्ति न बहिस्तिष्ठन्त्यपास्ता अपि ॥ ३७॥ आशाः पश्यसि किं भृशं भ्रमसि किं कण्ठेन संशुष्यता खामखास्थ्यकथामिति प्रतिजनं जल्पन्न विश्राम्यसि । मौनी भुल फलं हि कर्मजमृजो! वामात्रमैत्रीपरे लोके काश्चनलिप्तताम्रसदृशे सारत्वमन्तः कुतः ॥ ३८॥ मज्जन जले सरल ! किं मुहुराकुलस्त्व मालोकसे मुखममुष्य तटस्थितस्य । दाहक्रियोपकरणेन्धनविक्रियैक वृत्तेरितस्तव कुतोऽस्तु करावलम्बः ॥ ३९ ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy