SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ठकुरसोमेश्वरदेघविरचिता ५. अथ कुनरेन्द्रनिन्दा। यातास्ते जगतीतलैकतिलकाः पौरन्दरं मन्दिरं . पन्थाः प्रार्थयितुः प्रदातुरिव यैरुत्कण्ठितैरीक्षितः। भूपाः संप्रति ते प्रशासति महीमात्तैरतृप्ताः सतां । वित्तोचैर्वत जीवित......तुमिच्छन्ति ये ॥ ४० ॥ नीताः क्रतो ये पशवः शवत्वं विप्रैस्त एते नृपतामुपेताः। तदग्रिमं वैरमनुस्मरन्तः कुर्वन्ति तेषामपकारमेव ॥४१॥ धातर ! विज्ञपयामि किश्चन मनःखेदाय यन्मे स्थितं सृष्टाः स्मः किमिहोत्तमे द्विजकुले कस्माच्च सन्तः कृताः। यस्मादत्र दुरीशदर्शितमहापापप्रयोगे युगे सत् कार्हति न कचिन्न च वयं दुःकर्म जानीमहे ॥४२॥ दुर्वर्णखरमन्त्रमात्रपठनाध्मातैर्द्विजैः शान्तिकं देवर्दिनशुद्धिरर्क-शशिनौ जानन्ति ये द्वौ ग्रहो । दानं पर्वणि चारणेषु कविभिस्तैरेव कीर्तिः स्थिरा येषां भूमिभुजामलं निजगुणोद्गारेण तेषां पुरः ॥ ४३ ॥ पुण्यमहो महदेषां नृपतीनां ब्रह्मबन्धुमुखपतितैः। विखरमबत्सरुभिर्विभिद्यते नोत्तमा यत् ॥ ४४ ॥ मुक्ते सौधसुखे परिग्रहपरिस्पन्दे च मन्दीकृते - चित्ते वित्तदुराग्रहान्निगमिते निर्वासिते च स्मरे । क्षुद्वाधाविधुरास्तथाऽपि शिशवः संतुष्यतोऽस्मानिमा नेते पातयितुं बत व्यवसिताः कुखामिसेवांहसि ॥४५॥ तावदमी दातारस्तावन्मित्राणि तावदतिसरलाः। कलिकालभूमिपाला यावन्नति क्रियाकालः ॥ ४६॥ भूमौ दासवदासितं प्रकटिताश्चाटूक्तयः कोटिशः । स्पृष्टा भूः शिरसा पुरश्चरणयोर्बद्धश्च सेवाञ्जलिः। न लिह्यन्ति तथाऽपि कर्कशतरास्तेऽमी नृपप्रस्तरा- ॥ स्तच्चेतश्विरमच्युतं परिचर श्रद्धासमृद्धिर्यदि ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy