Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
ठक्कुर सोमेश्वरदेव विरचिता
६. अथ दुर्जनः ।
स्वयं करोति शक्तश्चेदशक्तश्चिन्तयत्यपि । सर्वस्यापि हितं साधुरसाधुरहितं पुनः ॥ ५७ ॥
शिवा खादति मांसानि मृतानामेव केवलम् | अशिवा खलजिह्वा तु पृष्ठमांसानि जीवताम् ॥ ५८ ॥ पी (पे?) पणीप्रमुखाः पञ्च सूनाः स्युर्गृहमेधिनाम् । दुर्जनानां पुनः षष्ठी हृद्वृत्तिर्नाम तिष्ठति ॥ ५९ ॥ परिहृतिमर्हति दूरादजारजो जारजोऽपि शुद्धिमताम् । कुप्रकृतिना समग्रः क्रियते मलिनो जनो येन ॥ ६० ॥ एकदृशं लोलतया द्विजिह्वमसदन्यदोषकथनेन । दुश्रेष्टया त्रिजातं व्याचष्टे दुर्जनं लोकः ॥ ६१ ॥
संभाषणीयः स मनीषिणां किमहर्मुखे दृश्यमुखः कथं वा । हत्वा न शौचं कुरुते न चापि हत्वा द्विजेन्द्राननुतप्यते यः ॥ ६२ ॥ दुःकाल भूपालहतावशिष्टं शिष्टं जनं संप्रति केsपि दुष्टाः 1 'स्वयं परैर्वा परिवादशस्त्रत्रातेन निःशेषयितुं यतन्ते ॥ ६३ ॥ गोमांसमश्नामि सुरां किरामि पिण्डे पितुर्मातरमभ्युपैमि । कृतप्रतीतिः शपथैरपीत्थं काले करोत्येव खलः खलत्वम् ॥ ६४ ॥ दुर्जनानां गुणश्रेणिः शरद्गङ्गागुणोज्ज्वला । घोरे दुरात्मनां वाग्जनरके निवसेत् कथम् ? ॥ ६५ ॥
७. अथ मनस्वी ।
याताsन्यतः प्रिया श्रीरिति दुर्भगतामुपागता लोके । शान्त्याऽऽश्रितोऽभिमानी भूयः सौभाग्यमभ्येति ॥ ६६ ॥ कः खलु सुभगो भुवि यो नादत्ते दीयमानमपि वित्तम् । को दुर्भगश्च यस्तल्लभते न हि याचमानोऽपि ॥ ६७ ॥ कालविशेषवशेन प्रसूनमितरेषु तरुषु फलविकलम् । सुजनतरुवचनकुसुमं न कदाचिन्निः फलं भवति ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54