Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
ठकुरसोमेश्वरदेघविरचिता
५. अथ कुनरेन्द्रनिन्दा। यातास्ते जगतीतलैकतिलकाः पौरन्दरं मन्दिरं . पन्थाः प्रार्थयितुः प्रदातुरिव यैरुत्कण्ठितैरीक्षितः। भूपाः संप्रति ते प्रशासति महीमात्तैरतृप्ताः सतां । वित्तोचैर्वत जीवित......तुमिच्छन्ति ये ॥ ४० ॥
नीताः क्रतो ये पशवः शवत्वं
विप्रैस्त एते नृपतामुपेताः। तदग्रिमं वैरमनुस्मरन्तः
कुर्वन्ति तेषामपकारमेव ॥४१॥ धातर ! विज्ञपयामि किश्चन मनःखेदाय यन्मे स्थितं
सृष्टाः स्मः किमिहोत्तमे द्विजकुले कस्माच्च सन्तः कृताः। यस्मादत्र दुरीशदर्शितमहापापप्रयोगे युगे
सत् कार्हति न कचिन्न च वयं दुःकर्म जानीमहे ॥४२॥ दुर्वर्णखरमन्त्रमात्रपठनाध्मातैर्द्विजैः शान्तिकं
देवर्दिनशुद्धिरर्क-शशिनौ जानन्ति ये द्वौ ग्रहो । दानं पर्वणि चारणेषु कविभिस्तैरेव कीर्तिः स्थिरा
येषां भूमिभुजामलं निजगुणोद्गारेण तेषां पुरः ॥ ४३ ॥ पुण्यमहो महदेषां नृपतीनां ब्रह्मबन्धुमुखपतितैः। विखरमबत्सरुभिर्विभिद्यते नोत्तमा यत् ॥ ४४ ॥ मुक्ते सौधसुखे परिग्रहपरिस्पन्दे च मन्दीकृते - चित्ते वित्तदुराग्रहान्निगमिते निर्वासिते च स्मरे । क्षुद्वाधाविधुरास्तथाऽपि शिशवः संतुष्यतोऽस्मानिमा
नेते पातयितुं बत व्यवसिताः कुखामिसेवांहसि ॥४५॥ तावदमी दातारस्तावन्मित्राणि तावदतिसरलाः। कलिकालभूमिपाला यावन्नति क्रियाकालः ॥ ४६॥ भूमौ दासवदासितं प्रकटिताश्चाटूक्तयः कोटिशः ।
स्पृष्टा भूः शिरसा पुरश्चरणयोर्बद्धश्च सेवाञ्जलिः। न लिह्यन्ति तथाऽपि कर्कशतरास्तेऽमी नृपप्रस्तरा- ॥ स्तच्चेतश्विरमच्युतं परिचर श्रद्धासमृद्धिर्यदि ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54