Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा प्रासादे शयनं विकालमशनं मिथ्यार्थसंदर्शनं
खस्यापद्भवनं निशासु गमनं भट्टैश्च संतापनम् । संवन्धानयनं सचाटुवचनं माहात्म्यनिर्वासनं
यद्याकर्षसि दुःखकारणमृणं तत्पूर्वमेतत् पठ॥ १०३ ॥ वृक्षच्छायविभागमर्पयति यो वेश्मैव तेनार्पितं
दत्ता भूरिह तेन यो रथपथं दत्ते रथस्याग्रतः। तोयं तुच्छमपि प्रयच्छति च यस्तेनैव जीवः पुनः
प्रत्युप्तो बत देशभङ्गचलिते लोके धिगेतां दशाम् ॥ १०४॥ वृद्धोक्षः पतति क्षितौ गुरुभराक्रान्तः शताङ्गः क्षतः
कान्ता सान्त्वयति क्षुधापरिगतं स्तन्योज्झिता बालकम् । गन्तव्यं च बहु व्यतीत्य गतवान् सार्थः प्रयात्यंशुमान् अस्तं व्यस्तमहा हहा गृहपतिः कां दुर्दशामागतः ॥ १०५॥
तिष्ठत्येव तवान्तिके सुरतर्दानेयदीनात्मनां __ आनन्दं नयनद्वयस्य कुरुते चन्द्रोऽपि सान्द्रद्युतिः। देवेनाऽपि दितेः सुतान् दलयता नाकश्च निष्कण्टक:
श्रीसिद्धाधिपति विधे! स्वसविधे तत् किं भवान् नीतवान् ॥१०६ तानेव स्तुमहे महेश ! महितां प्रागेव यातान् महीं
यस्मादस्तमिते महात्मनि हहा श्रीकर्णदेवात्मजे। लात्वा दुस्तरशोकलोकनयनभ्रष्टैर्जलैर्बिभ्रती
शुभं कीर्तिपटं प्रियेण रहिता भूरद्य दृष्टा न यैः॥ १०७॥ सिद्धेशप्रमुखैः पुरा परिहृतं प्राणैरिव क्षोणिपैः
पश्चान्मुक्तममुक्तधर्ममतिभिर्बन्धूपमैर्मन्निभिः। स्थायं स्थायमथ श्रिया कथमपि त्यक्तं जनन्येव यत् तत् कैश्चित् पुरमर्धदग्धमधुना ध्वाङ्गैर्यथा भक्ष्यते ॥ १०८॥ मुण्डेव खण्डितनिरन्तरवृक्षखण्डा
निःकुण्डलेव दलितोज्वलवृत्तवप्रा । दूरान्निरस्तविषया विधवेव दैन्यमभ्येति गूर्जरधराधिपराजधानी ॥१०९॥
mmmmammmmmmmmmmmm
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54