SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा प्रासादे शयनं विकालमशनं मिथ्यार्थसंदर्शनं खस्यापद्भवनं निशासु गमनं भट्टैश्च संतापनम् । संवन्धानयनं सचाटुवचनं माहात्म्यनिर्वासनं यद्याकर्षसि दुःखकारणमृणं तत्पूर्वमेतत् पठ॥ १०३ ॥ वृक्षच्छायविभागमर्पयति यो वेश्मैव तेनार्पितं दत्ता भूरिह तेन यो रथपथं दत्ते रथस्याग्रतः। तोयं तुच्छमपि प्रयच्छति च यस्तेनैव जीवः पुनः प्रत्युप्तो बत देशभङ्गचलिते लोके धिगेतां दशाम् ॥ १०४॥ वृद्धोक्षः पतति क्षितौ गुरुभराक्रान्तः शताङ्गः क्षतः कान्ता सान्त्वयति क्षुधापरिगतं स्तन्योज्झिता बालकम् । गन्तव्यं च बहु व्यतीत्य गतवान् सार्थः प्रयात्यंशुमान् अस्तं व्यस्तमहा हहा गृहपतिः कां दुर्दशामागतः ॥ १०५॥ तिष्ठत्येव तवान्तिके सुरतर्दानेयदीनात्मनां __ आनन्दं नयनद्वयस्य कुरुते चन्द्रोऽपि सान्द्रद्युतिः। देवेनाऽपि दितेः सुतान् दलयता नाकश्च निष्कण्टक: श्रीसिद्धाधिपति विधे! स्वसविधे तत् किं भवान् नीतवान् ॥१०६ तानेव स्तुमहे महेश ! महितां प्रागेव यातान् महीं यस्मादस्तमिते महात्मनि हहा श्रीकर्णदेवात्मजे। लात्वा दुस्तरशोकलोकनयनभ्रष्टैर्जलैर्बिभ्रती शुभं कीर्तिपटं प्रियेण रहिता भूरद्य दृष्टा न यैः॥ १०७॥ सिद्धेशप्रमुखैः पुरा परिहृतं प्राणैरिव क्षोणिपैः पश्चान्मुक्तममुक्तधर्ममतिभिर्बन्धूपमैर्मन्निभिः। स्थायं स्थायमथ श्रिया कथमपि त्यक्तं जनन्येव यत् तत् कैश्चित् पुरमर्धदग्धमधुना ध्वाङ्गैर्यथा भक्ष्यते ॥ १०८॥ मुण्डेव खण्डितनिरन्तरवृक्षखण्डा निःकुण्डलेव दलितोज्वलवृत्तवप्रा । दूरान्निरस्तविषया विधवेव दैन्यमभ्येति गूर्जरधराधिपराजधानी ॥१०९॥ mmmmammmmmmmmmmmm Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy