SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ठक्कुरसोमेश्वरदेवविरचिता सपदि विधिर्यः कुरुते तद्वा हृदयं यदनुभवत्यनिशम् । जानाति दुःखसंख्यां कथयितुमज्ञा रसज्ञा मे ॥ ९५ ॥ भीति [:] मृत्योः कस्य न स्यादसाव प्याशास्योऽभूद् दुःखिनामीदृशां नः। सोऽपीदानी प्राप्यते प्रार्थ्यमानो धिक् संसारं धिक् तथैवार्थिनोऽस्मान् ॥ ९६ ॥ दुःखातुरे पितरि मातरि साश्रुमुख्यां क्रोधादिना विधुरिते सुतबन्धुवर्गे । आपत्पयोधिपतितानतिताम्यतोऽस्मान् ___ यद् दैव ! जीवयसि मारयसि ध्रुवं तत् ॥९७॥ धत्ते व्याकरणं न कोऽपि कवितां कुत्रापि नार्थत्यसौ तर्क मर्कटवन्न कोऽपि निकटीकतु कदापीच्छति । वेदाद्विजते जनस्तदपरं नैवाल्पमप्यस्ति मे भ्रातर ! जल्प पणेन केन तदहं वित्तं धनिभ्यो लभे ॥ ९८॥ अवधिदिवसः प्राप्तः सोऽयं प्रयच्छसि किं न मे धनमिति धनिन् ! मा स्म क्रोधं विधेहि शृणु क्षणम् । यदिह दधतो वित्ताभावादवस्तुषु मुख्यतां मम न वचनैरायाति श्रीन याति च जीवितम् ॥ ९९॥ सत्सु प्राणेषु दत्तेषु कृतान्तो विनिवर्तते। याचमानस्त्वसद् द्रव्यं धनिकः केन तोष्यताम् ॥१०॥ यद्यन्नं न घृतं कदापि तदपि स्यात् तन्न तक्रं तदा दैवात् तत् त्रितयं भवत्यथ भवेन्नो भोजनं भुक्तये । दिष्ट्या संघटितं समग्रमपि तत् तावत् कुतोऽप्युत्कटो भट्टोऽभ्येति कृपाणिकाङ्कितकरः प्रत्यूहकारी हहा ॥ १०१॥ आतङ्काय विलोकितः कृतफणाफूत्कारभारः फणी कान्तारे तरसा प्रसारितमुखस्तस्माच पश्चाननः। उद्गुर्णाद्भुतलोहमुद्गरकराकारस्ततोऽप्यन्तकः सर्वेभ्योऽप्यधमर्णतर्णकवृको भट्टः कृपाणीकरः॥१०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy