________________
कर्णामृतप्रपा
यः पत्तिः स सखेव संप्रति समं संभाषते यः सखा स स्वामी समीहतेऽधिकतमां पूजां समाजस्थितः । यः खामी स रिपूयते किमपरं पुत्रोऽप्युदास्ते हहा ! जन्मेवान्यदिहैव जन्मनि धनाभावेन नीता वयम् ॥ ८७ ॥ काकुस्थेन वनं प्रविश्य विजनं तीर्णः स दुःखार्णवः
स्वं निहृत्य विराटवेश्मनि विपत् सोढाऽजमीढेन सा । एते हन्त ! वयं तु दैवतवशादेतां गता दुर्दशा
मस्मिन्नेव पुरे नरैः परिचितैः पूर्णे चरामः कथम् ॥ ८८ ॥
अर्थार्थे मुक्तमानैः श्वभिरिव भवनद्वारि तस्थे नृपाणां
कामार्थे किं न सोढं परयुवतिरतैस्ताडितं तत्पतीनाम् । धर्मार्थे नैकभक्तव्रतमपि चरितं हा ! महामोहमग्नैर्
यैरेते तेऽद्य कृच्छ्राण्यपि वयमधुना निर्धनाः साधयामः ॥ ८९ ॥ जोवारीचूर्णमन्नं तदपि सकृदसंपन्नभक्ताज्यशाकं
शीर्ण जीर्ण च वासः कचिदपरजनावासकोणे निवासः । एवं दौर्गत्यदावज्वलनकवलितस्यापि यस्यान्तरात्मा न स्याद् वैराग्यवाही स खलु शिशु-पशु-प्रस्तरेभ्योऽप्यचेताः ॥९०॥
शयनस्थानं मशकैः शयनीयं मत्कुणैश्च संकीर्णम् । गृहचिन्तया च हृदयं तथाऽपि निद्राऽर्थिनी नयने ॥ ९१ ॥
आनन्दामृतशीते कुरु केलिं स्मरसुखेन हृदि सुखिनाम् । स्थित्वा किमिह करिष्यसि दुःखानलसंकुले मनसि ॥ ९२ ॥ किं वाचाल ! करोषि रे ! कलकलं पुंस्कोकिल ! त्वं वृथा
कस्मान्मारुत ! वासि वासितवपुस्त्वं मल्लिका- चम्पकैः । चन्द्र ! त्वं च कुतः स्थितोऽसि पुरतः प्रोद्दामदेहद्युते !
नोन्मादं भजते विपत्सु यदिदं दुर्दैवदूनं मनः ॥ ९३ ॥ अकालक्षेपाणि प्रचुरधनसाध्यानि शतशो
विधेयान्यायान्ति द्रविणकणिकाऽप्यस्ति न गृहे । न लेशोऽप्याशायाः क्वचिदपि च लाभस्य तदहो ! दरिद्राणामिन्द्रे मयि सति किमन्योऽप्यधृतिमान् ? ॥ ९४ ॥
Jain Education International
११
For Private & Personal Use Only
www.jainelibrary.org