SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ठकुरसोमेश्वरदेवविरचिता ऐश्वर्येण न दुर्दशा भवति चेजम्भारिरम्भोरुहे लीनः किं न पराक्रमेण यदि तद् रामः किमेवंविधः । न त्यागादथवा विलोकय बलिं धर्मान्न चेत् तद्वधूः किं दुःखं तदलं खिदा विधिवशादायाति सा याति च ॥७९॥ ९. अथ निर्वेदः। भ्रातश्चित्त ! विवक्षुरस्मि किमपि क्रोधं विधत्से न चेत् पण्यस्त्रीबहुवश्चितेन भवता यद् यत् कृतं तच्छृणु । पूर्वोपात्तवसुव्ययो न गणितः साध्वी वधूः खं मुहु निन्दन्ती निहिताऽतिदुःखदहने दूनं च पित्रोमनः ॥ ८॥ पृथिव्यां द्रव्यान्धाः कति न परिरब्धाः परिभवै ने वैश्वर्याध्मातक्षितिपकृपणद्वारि पतिताः। स कोऽप्येषः स्वामी न च परिचितो यः परपद प्रतिष्ठामानन्दव्यतिकरवरिष्ठां वितरति ॥ ८१॥ न गङ्गेऽहं त्वयि लातो नगं गेहं न च व्यधाम् । सहे मानक्षितिं लुब्धः सहेमानं जनं नमन् ॥ ८२ ॥ न ध्यातः कचिदपि पापिना पिनाकी नाऽऽकीण जलमरजः सरिद्वरायाः। न भ्रातः ! सकृदपि रामनाम गीतं हा! नीतं निजमिदमेवमेव जन्म ॥ ८३ ॥ मातः ! सरखति ! सहख बहुक्षमात्व मेकं विवेकविकलस्य ममापराधम् । यद्दर्शिताऽसि कविधर्मबहिर्मुखानां मिथ्यावलिप्तमनसामिह पुंस्पशूनाम् ॥ ८४॥ युगमिदं सुकृतैकखलः कलिम्रपतयस्त इमे गुणविद्विषः। उपरता च कथाऽपि महात्मनामहह ! निर्वृतिमेतु कथं मनः ॥८॥ न तद्दिनं यत्र नवं न दुःखं स्थानं न तद् यत्र गतस्य तुष्टिः । न स प्रभुयंत्र च लब्धमाशा मित्रं न तद यत्र निवेदयामि ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy