SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा भाग्यानि तानि भुवनस्य धनी यदि स्यावापद्गतोऽप्युपकरोति सतां महात्मा । सीतापतिर्वनगतिर्व्यसनस्थितोऽपि राज्ये चकार कपिराज - पलादराजौ ॥ ६९ ॥ न महे निजेsपि महतामन्तःकरणं विकारमभ्येति । नृत्यति पुनरितरेषामपरोत्सवसीधुना मत्तम् ॥ ७० ॥ ८. अथ विधिः । वैदेहीदयितेऽपि दुष्टहृदयः पार्थेऽप्यनर्थप्रदो जीमूतेऽपि यमोचितव्यवहृतिः कर्णेऽपि कर्णेजपः । भीमो भीमसुतापतावपि हरिश्चन्द्रेऽपि रौद्राशयः शक्रेऽपि श्रितवक्रिमा हतविधिर्यस्तस्य के मी वयम् ॥ ७१ ॥ यद्यपि परः सहस्राः कर्त्तव्यपथास्तथाऽपि विधिरेषः । गमयति नस्तेन पथा येनानर्थः पराभूतिः ॥ ७२ ॥ तापयत्य सुखवहिना मुहुलहटङ्कमिव मानवं विधिः । लोहकार इव मोहमुद्गरैर्घातयत्यपि ततः समन्ततः ॥ ७३ ॥ मम दुःखाग्निना नूनमाहिताग्निरयं विधिः । तदेनमुपशाम्यन्तमतियत्नेन रक्षति ॥ ७४ ॥ अवदतामपि दुर्वचनं मुहुर्निदधतामपि साधुपथे पदम् । जनयति व्यसनं तदहो विधिर्भवति यन्महतामपि दुस्तरम् ॥७५ || सुरजनमसुरजनं वा गच्छत शरणं नरा वराकाः । कः कर्मावर्त्ते पतितः वचन पुमान् निर्वृतिं नैति ॥ ७६ ॥ तुल्ये पितर्यपि च जन्मनि हन्त ! तुल्ये कल्याणता भवति दैवकृतैव लोके । यद्दक्षिणः पथिषु पुण्यपरेषु पाणिर्वामः पुनर्मलिनमार्गमभिप्रवृत्तः ॥ ७७ ॥ कुरुतां विधिर्विरुद्धं तत्कृतमनुमोदतां च पिशुनजनः । म मनागपि धीरमनाः कुप्यति तस्मै च तस्मै च ॥ ७८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy