SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ठक्कुरसोमेश्वरदेवविरचिता १०. अथ प्रकीर्णकाव्योक्तयः । इयतैव मया ज्ञाता सरसस्तव सारता हंसीभूय बकैर्यत्र राजहंसः परीक्ष्यते ॥ ११०॥ एकत्रैव सरोवरे विहरणं तुल्यैव देहद्युतिः पक्षित्वं च सदृक्षमेव विगुणं किं राजहंसान्मम । इत्यन्तः सततं वराक ! बक! रे ! बिभ्रन्न संभ्राम्यसि प्राप्तेऽप्यन्तिकमुत्तमेऽत्र तदहो ! धिक् त्वां मुधा मानिनम् ॥१११॥ जातीवियोगविधुरस्तपसे गङ्गां जगाम भृङ्गयुवा। तत्रापि पद्मिनीनां मधु लब्ध्वाऽधिकतरं मत्तः ॥ ११२॥ अयि कृतज्ञ ! बकोट ! बहु त्वया यदुषितं सरसीह निरम्भसि । तदधुनाऽपि सहख दिनद्वयं यदयमम्बुधरः पुर एव ते ॥ ११३ ॥ मधुपः केतकीगन्धभङ्गिरङ्गितमानसः। कण्टफस्योत्कटां पीडां सहते दुस्सहामपि ॥ ११४ ॥ ददति पदानि स्कन्धे दलयन्ति दलानि यदपि कपिनिवहाः । सहकारस्य विकारस्तदपि न सर्वंसहस्यासीत् ॥ ११५ ॥ सत्कार्यः सुजनोऽयमागत इतः स्थाता च नासौ चिरा दौचित्याय भविष्यति फलस्फीतिर्विलम्बेन मे। मैवं भूर्भुवनोपकारचतुर ! त्वं चूतपर्याकुलः पर्याप्तं यदनेन किं घटनया त्वच्छाययैवानया ॥ ११६ ॥ शाखाशतैर्वसुमतीवलये ! नमामि लब्ध्वा पुनः फलसमृद्धिमहं नमामि । चूतश्चिरं सुरभिदूतरुतैरितीव दत्ते धनोद्धतधियां विनयोपदेशम् ॥ ११७ ॥ दग्धा मुग्धदलावलीति न फलश्रेणी विशीर्णेति न श्रान्ताध्वन्यमनःप्रमोदजननी छाया विशीर्णेति न । खेदश्चततरोर्दवार्त्तवपुषः किन्त्वस्य सैव व्यथा सत्कार्योऽयमसत्कृतः सुहृदितः पुंस्कोकिलो याति यत् ॥ १९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy