SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रा आपृष्टोऽसि महीरुहेन्द्र ! भवते स्वस्त्यस्तु यामो वयं लब्धव्यं यदि किञ्चिदस्ति तदितोऽन्यत्रापि लप्स्यामहे । कल्पोर्वीरुहसेवयाऽप्यभिमता न प्राप्यते श्रीरिति ख्यातिस्ते भविता पुनर्जगति यत् तेनैव लज्जामहे ॥ ११९ ॥ छायेच्छया तव समीपमुपागतस्तन्माकन्दपादप ! तथा सुखितस्त्वयाऽहम् । क्षुद्रः करीरविटपी कटुकण्टकोऽपि त्यक्तः कुतः पथि मयेति तथा स्मरामि ॥ १२० ॥ उष्णे पूष्णि रुषैव पिंषति शिरोदेशान्निशातैः करैरयेनाकारि तरूत्तमेन जनतासंतापनिर्वारणम् । सोऽयं तोयद! दैवदुर्विलसितादेतां गतो दुर्दशामाशामस्य तदाशु पूरय परप्रीत्यै यतस्त्वादृशाः ॥ १२१ ॥ आसंसारं शिशिरमधुरैः पूरितस्तोय पूरैः कासारोऽसौ भवतु भगवन्नम्बुद ! त्वत्प्रसादात् । यः संपूर्णः पृणति पृथिवीं नात्मनैवान्तिकस्थं वापीकूपप्रभृति च भृतं भोगयोग्यं करोति ॥ १२२ ॥ तुच्छास्वच्छकवोष्णवारिविभवः कासारवर्गः परं तिग्मांशुस्तपति स्फुरन्ति पुरतो दावस्फुलिङ्गाकुलाः । इत्थं मृत्युमुखागतस्य पथिकत्रातस्य तत् किश्चन न्यग्रोधेन कृतं कृतं न खलु यत् पित्रा च पुत्रेण यत् ॥ १२३॥ मासान् मांसलपाटलापरिमलव्यालोलरोलम्बिनः प्राप्य प्रौढिमिमां समीर । महतीं हन्त त्वया किं कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् पादस्पर्शसहं विहाय सितयोः स्थाने रजः स्थापितम् ॥ १२४ ॥ हे विश्वाश्वासनैकव्यसनधन ! तव प्रोन्नतस्य प्रसादात् कासारः स्फारवीचिर्न खलु न भविताऽशेषशोषं गतोऽपि । किन्तु क्लान्तेऽजपुञ्जे चलदलिनि जवात् त्वं पयःसेकमेकं यथाsil शफरपरिकरप्राणिनि प्राणशेषः ॥ १२५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy