SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ठकुरसोमेश्वरदेवषिरचिता हे वारिवाह ! सहकारमहीरहेण प्राप्ता मनोरथशतैरियमुन्नतिस्ते । आविर्भवत्यचिरमुं प्रति संप्रति त्वं तत् कर्तुमिच्छसि दवोऽपि न यच्चकार ॥ १२६ ॥ सुखमासीनः पश्यति कृतार्थितामात्मना महीमखिलाम् । संप्रति निर्व्यापारो निर्मलरुचिरेष घन [:] सुजनः ॥ १२७ ॥ हे कासार ! शिरोऽवतंसविकसत्पद्मासनेन त्वया पीयूषप्रतिमैर्जलैर्विदलिताः केषां न तृष्णातयः। तं त्वां तीर्थमुपेयुषः कुलपतेरस्याम्बुवृत्तेः कृते खल्पः कोऽपि यदि व्ययः किमियता विश्वोपजीव्यस्य ते ॥१२८॥ कूपोऽयमल्पसलिलस्त्रुटितावशिष्ट सप्ताष्टसंकटघटीभृदिहारघट्टः। छिद्राकुलं च जलपानपदं तदत्र भ्रातः ! कथं कथय पास्यसि पान्थ ! पाथः॥१२९ ॥ करभ! सरभसं भज! त्वमन्यद वनमवनं वपुषश्चिकीर्षितं तत् । इह विहरति केसरी करीन्द्र ब्रजविजयोद्धरकन्धरः पुरस्तात् ॥ १३०॥ देवादपास्य पाशान् कुशलिनि दूरं गते कुरङ्गपतौ । लुन्धक-जम्बुक-वायसमनोरथा व्यर्थतां याताः ॥ १३१॥ भूमीभारं विभृमह इति स्फारितोत्तुङ्गशृङ्गाः शैलाः सन्तु प्रसृमरमदाः सन्तु दिग्दन्तिनोऽपि । त्वं तु क्षोणी क्षणमपि फणान्मा मुचः शेष! तेषां - शक्ति द्रष्टुं स्फुटमितरथा नावनिर्नोद्धतास्ते ॥ १३२ ।। तस्मै तिम्मरचे नमस्तमसि यो मनां व्यनक्ति क्षिति बन्छ। सोऽपि सितातिर्यदुदयात् को नाम नामोदते ? । दुश्चेष्ठाभिरवग्रहप्रभृतिभिः संख्यापयन्तः पुनमाया यदमी समं ग्रहततौ वल्गन्ति तत्कौतुकम् ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy