Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 11
________________ ठक्कुरसोमेश्वरदेवविरचिता १. अथ लक्ष्मीः । उच्चैर्ग समारोप्य नरं श्रीराशु गच्छति । दौस्थ्यदत्तावलम्बोऽथ स तस्मादवरोहति ॥ १० ॥ जितं लक्ष्मि ! त्वया यस्मै जनस्तमपि सेवते । धनं निकारपूर्वं यः प्रदत्ते प्रेतनाथवत् ॥ ११ ॥ महान्ववायान् शुभशुद्धबुद्धीन् सेवाऽऽगतानाढ्यचरानवेक्ष्य | जातः श्रिया मूढ ! किमूढगर्वः स्थिरश्वलं चिन्तय शीलमस्याः ॥ १२ ॥ यल्लाभाय महीभुजः कुमतयो दूरादुपश्लोकिता नैराश्यं गमिताः श्रुतिस्मृतिविदो यत्तृष्णया तेऽर्थिनः 1 यद्रक्षार्थमशायि रात्रिषु सुखं न स्तेयभीत्या मया नापृष्टोऽस्मि तया रयात् कमलया यान्त्याऽतिनिःस्नेहया १३ नमस्तुभ्यं तस्यै प्रकृतिचपले ! देवि ! कमले ! पतिः पत्तिः पत्तिः पतिरिति यया दर्शितमिह । तथाऽप्येतच्चेतस्त्वयि किमपि जातस्पृहमहो ! न ताम्यद् विश्राम्यत्यकृपन्नृपसेवाऽध्यवसितात् ॥ १४ ॥ उषित्वा कंसारेश्चिरमुरसि वैदग्ध्यमधुरे भवत्या मातः ! श्रीरिदमपि न किं शिक्षितमतः । देतेषु द्वेषं गुणिषु दधती वेश्मनि धनस्मयावेशान्धानामहममहतामागतमिति ॥ १५ ॥ Jain Education International कुर्वन्त्येवं सर्वलोकोपहास्यं देवि ! श्रीः किं न स्वयं लज्जिताऽसि । युक्तं येषां रे ! पदेनाभिधानं संबोध्यन्ते देवशब्देन तेऽपि ॥ १६ ॥ अन्यायसंभवा श्रीरन्यायेनैव याति सा नियतम् । अर्जनहानिक्लेशः केवलमवशिष्यते कुधियाम् ॥ १७ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54