SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ठकुर- सोमेश्वरदेव - विरचिता कर्णामृत प्रपा सुभाषितावली यं पद्मा सेवते पद्माशयेव जलशायिनम् । स वः करोतु कंसारिः संसारव्ययमव्ययम् ॥१॥ तं स्मरामि स्मरामित्रं येनास्मि स्मरणादपि । शुभानामशुभानां च कर्मणामणीकृतः ॥२॥ अन्तर्सम्पापातनिर्मुक्तदेहान् __ मानूद्ध गच्छतोऽनुच्छलन्ती। अन्वेतीव लेहतः सीकराणां श्रेणिर्यस्यास्तामहं नौमि गङ्गाम् ॥ ३॥ कष्टानष्टापि निर्विश्य रसांस्तष्वद्य नीरसः। श्रीकुमारसुतो ब्रूते पिपासुनवमं रसम् ॥ ४ ॥ विषयरसनिरन्तरानुपान प्रकुपितमोहकफोपगुम्फितात्मा । त्रिकटुकगुटिकामिव त्रिवेदी वदनगतामहमन्वहं वहामि ॥५॥ यो यः प्रादुरभूद् भावो भवं भावयतो मम । स स बद्धो मृषा-मायाबद्धं बोधयितुं जगत् ॥ ६॥ संसारोऽयमसारः प्रसिद्धमेतत् तथापि कथयामि । जागर्यते हि सुप्तः पुनः पुनः साधु बोधाय ॥७॥ अहो! संसारकारान्तर्मायानिगडितात्मनाम् । दृश्यते जातु जन्तूनां निवृतिर्न कथञ्चन ॥ ८॥ केचिद् द्युम्नाय धावन्ति प्रद्युम्नाय च केचन । नोयुके कोऽपि धर्माय सर्वाभिप्रेतहेतवे ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy