Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 345
________________ कालिकाचार्यकथा । नीरधेरपि गम्भीरो, धीरो मो(मे)रुगिरेरपि । सोमादपि महासौम्या, प्रतापी तपनादपि ॥७॥ उदारस्फारशारः, परनारीसहोदरः ।। सत्यवाक् शरणाऽऽयातवजपारसंनिभः ॥८॥ विभिर्विशेषकम् ॥ कुमारोऽन्येशुरुधाने, गतः क्रीडाप्रसङ्गतः । गुणाकराचार्यगिरं, भुश्राव श्रवणामृतम् ॥९॥ अपारे भवकान्तारे, प्राणिनां भ्रमतां सताम् । कर्मलायवतोऽनया, जायते मानुषी गतिः ॥१०॥ इन्द्रजालोपमे जीवितव्ये द्रव्ये विनश्चरे । मतिर्भवति चारित्रे, केषाश्चिदपि धीमताम् ॥११॥ एवमादि गुरोवा(वा)णी, तूर्णमाकर्ण्य स व्रतम् । सरखत्या महासत्या, भगिन्या सममग्रहीत् ॥१२॥ गीतार्थो गुणसंयुक्ता, श्रीगुणाकरमूरिमिः ।। क्रमात् हरिपद(देऽ)स्थापि पापिनामपि बोधकत् ॥१३॥ तपो निष्कपटं कुर्वन् , भव्याली स विबोधयन् । विहरन् वसुधापीठे, जगामोजयिनी पुरीम् ॥१४॥ तस्योपवनसंस्थस्य, समायान्ति पुरीजनाः । धर्मवाणी रसेनाऽऽद्री, गीति श्रोतुं मृगा इव ॥१५॥ इतश्च देवयोगेन, तदा साध्वीसमागमः ।। बभूव तत्र जायेत, नान्यथा भवितव्यता ॥१६॥ अन्यदा बहिरुघाने, साक्षादिव सरस्वतीम् । सरखती सती प्रेक्ष्य, कामं कामलिताऽऽशयः ॥१७॥ ममाऽन्तःपुरयोग्येयमित्युक्त्वा मालवेश्वरः । गर्दभिल्लनृपो मिल्लसमानोऽशुभकर्मभिः ॥१८॥ दीनां चिल्लीमिर श्येनो, जानकीमिव रावणः । तामचाहरदन्यायपथपान्यः स पाषधी[:] ॥१९॥ विहला विललापे(पै), सती तेन हता सती । हा वीतरागसर्वज्ञ!, हा देव ! किं भविष्यति ॥२०॥ हा श्रीगुणाकराचार्य !, हा कालकसहोदर ।। हा तात वैरिसिंहाऽऽख्य !, हा मातः सुरमुन्दरि! ॥२॥ मदीयं चरणद्रव्यं, हरन्तं पश्यतोहरम् । निवारयति सर्वेऽपि, गर्दभिल्लं कुभूपतिम् ॥२२॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406