Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya
View full book text
________________
कालिकाचार्यकथा । लक्ष्मीसागरसूरीशाः, सोमदेवाहसूरयः । विद्यन्ते लसद्विद्यावाधिमन्थनमन्दराः ॥५॥ श्रीमन्मुनीशमुनिसुन्दरमूरिराज
शिष्यः श्रीमन्मुनीशशुमशील इति प्रमुख्यः । एतां कयां वितनुते स्म नवाम्बरेषु
चन्द्रममाणसमये (१५०९) किल विक्रमार्कात् ॥६॥ भरहेस(तेश्वोर-बाहुबलीवृत्तिः शुभशीलविबुधरचितेयम् । शोध्यासुबुद्धिमद्भिर्विबुधैः कूटापसरणतः ॥७॥ अनाभोगादिना किश्चिद, यदत्रोत्सूत्ररोपणम् । चक्रे तदस्तु मे मथ्यातमोऽईदादिसाक्षिकम् ॥८॥
[२७] श्रीधर्मदासगणिविरचिता उपदेशमालाटीकान्तर्गता कालिकाचार्यकथा ॥
जीअं काऊण पणं, तुरमणिदत्तस्स कालिअज्जेण ।
अवि य सरीरं चत्तं, न य भणिअमहम्मसंजुत्तं ॥१०५॥ जीयं इति-स्वकीयं जीवितं पणं कृत्या, तुरमणि त्ति तुरमणिनाम्नि नगरे, दत्तस्स त्ति दत्तनाम्नो राज्ञः, कालिकज्जेण कालिकाचायेंण, च पुनः स्वशरीरमपि त्यक्तम् , मनसा स्वदेहोऽपि त्यक्तः । परं अधर्मसंयुक्तं असत्यं वचनं न भणितं न भाषितम् ॥ १०५ ॥
अथात्र कालिकाचार्यसंबन्धो यथा----
तुरमणिनामनि नगरे जिनशत्रुनामा नृपः । तत्रैक: कालकनामा विप्रस्तस्य भदानाम्ना भगिनी । तस्या दत्तनामा पुत्रः । एकदा कालिकब्राह्मणेन स्वयं बुद्धेन चारित्रं गृहीतम् । क्रमेण आचार्यपदं प्राप्तम् । तद्भागिनेयो दत्तनामा निरङ्कुशो धुतादिव्यसनाभिभूतो नृपसेवां करोति । कर्मयोगेन राज्ञा तस्य मन्त्रिपदं दत्तम् । लब्धाधिकारेण तेन राजानं बहिः निष्कास्य स्वयं राज्यं गृहीतम् । राजापि तद्भयानष्टः प्रच्छन्नं स्थितवान् ।।
अथ सो दत्तनृपो महाकरका मिथ्यात्वमोहितोऽनेकान् यागान् कारयति । तदवसरे कालिकाचार्याः समवसताः । तदा भद्रामातुरुपरोधेन दत्तमन्त्रीश्वरोऽपि वन्दनार्थमागतः । गुरुभिर्देशना दत्ता । यतः
धर्माद् धनं धनत एवं समस्तकामाः, ___ कामेभ्य एव सकलेन्द्रियजं मुखं च ।
"Aho Shrutgyanam"

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406