Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya
View full book text
________________
२२०
श्रीशुभशीलगणिविरचिता भूत् । तत्कचोलकं मस्तके कृत्वा साधनसिंहस्य सेवकस्य सन्मानं कृत्वोत्तारकं ददौ । ततो रहसि कालिकाचार्यः शकं. पप्रच्छ कचोलकागमनवृतान्तम् । ततो राज्ञोक्तम्-अस्माकं षण्णवतिभूपानामेको मुख्यभूपः साधनसिंहोऽस्ति बली । स च यदास्माकं राज्ययोग्याङ्गजो भवति, तदा स भूपः कच्चोलकं क्षुरीयुतं प्रेषयति, तदा शीर्ष क्षुर्या छित्वा प्रष्यते । ततः सूरिराह-एवं को मूखों निज शिरो दत्ते । जीवद्भिः सुखं लभ्यते । ततो राजावक्-कि क्रियतेऽस्माभिः ? ततः सरिराह-- यदि मम कथितं कियते, तदा यो जीवितं भवति चिरम् । ततो भूपोऽवक्-कथयास्माकं जीवनोपायम्, त्वं तु विज्ञोऽसि । ततः सूरिराह-उज्जयिनी पुरी वस्ति, तत्र षण्णवतिमाः सन्ति, तेन तत्र यूयं सर्व भूपाः मया सार्द्धमागच्छन्तु । भवतामुजयिन्या राज्यं दास्यते मया । आकारयतु भवान् भपान् सर्वान् । ततो विचारं कृत्वा षण्णवतिर्भपाः स्वतुरङ्गमपत्तिकुटुम्बयुताश्चेलुः । वर्त्मनि तेषां वर्षाकाल: समायात् । ततो ढङ्कपर्वतपार्वे सुराष्ट्रामध्यस्थे ते भूपास्तस्थुः । शम्बलक्षीणा भूपा जगुः-भो कालिकावधूत ! शम्बलं विना कथमुज्जयिन्यां गम्यते, तत्रत्यं राज्यं च ग्रहीष्यते ! । सरिः प्राह-स्थिर स्थीयताम्, सर्व वयें भविष्यति । तदा सरस्वत्या आचाम्लतपस्करणस्वरूपं शासनदेल्या प्रोक्तम् । ततः [गुरुणा] पूर्णनेष्टिकानिवाहं स्वर्णीकृत्य सर्वेषां भूपानां विभज्य ददौ सूरिः । ततः सर्वे भूपा सुस्थिता बभूवुः । __ततः सूरिणा शिबिरं चालितम् गुर्जरात्रमध्ये भूत्वोजयिनीपार्वे ययौ । तदा गर्दभिल्लो भूपः संमुखमागत्य युद्धं कुर्वाणं वैरिबलं महद् दृष्ट्वा गर्दभिल्लो विद्या साधयितुमुपविष्टः । तदा सारेभिर्गदेभिल्ली(भी) विद्यां साधयन्तं गर्दभिलं मूपं ज्ञात्वा प्रोक्तम्-असौ भूपोऽप्रेतन्यामष्टम्यां गर्दभिल्ली(भी) विद्या साधयिष्यति । सा च यदा वोपरि चटित्वा शब्दं करोति, तदा
शब्दं श्रोष्यति स मरिष्यति । अतः कारणादष्टोत्तरशतं शब्दवेधिनो मया सह तिष्ठन्तु, शिबिरं गव्यूतद्वये स्याप्यते तदा यदाऽहं बाणं मुश्चामि तदा १०७ बाणवेधिभिर्वाणा मोचनीयाः । गर्दभीविद्यायाः शब्दं कुर्वाणाया मुखं बाणैर्मरिष्यते । ततो रुषा राजानं पदाभ्यां हत्वा मुखे नीतिं कृत्वा गमिष्यति । राजा मरिष्यति, राज्यं प्रहीष्यते । एवं स सरिः शब्दवेध्यादिनरान् मोलयित्वा गर्दभिल्लं जिगाय । शकसाहाय्यादुज्जयिन्या राज्यं वृद्धशकाय सरिर्ददौ सर्वम् । ततः सरिः सरस्वती सुशीलामन्तःपुरादानिनाय । सर्वेषां भूपानां पृथक् पृथग् देशान् विभज्य ददौ सरिः । यस्य राज्ञः पार्वे स्थितस्तस्योज्जयिनीराज्यं ददौ सरिरथवा स्वभागिनेयस्य ददौ । ततो गुरुयाचे गत्या श्रीकालिकाचार्यः प्रायश्चित्तं गृहीत्वा पुनर्वेषं गृहीत्वा चिरं भव्यजीवान प्रबोध्य स्वर्गसुखं प्राप! सरस्वत्यपि चारित्रं प्रपाल्य स्वर्ग गताः ।
इति कालिकसूरिकथा समाप्ता ।।
अन्धकारप्रशस्ति:
श्रीचन्द्रगच्छाम्बरभूषकोऽभूत्, तपागणी भानुरिवोद्धदीप्तिः । प्रबोधयन् भन्यजनाम्बुजाली, स्वगोविलासैरिव साधुचः ॥१॥ तत्राभवन् घरगुणगणमणिरोहणमहीधरपतिमाः । परमगुरुसोमसुन्दरगुरवः संयमरमापतयः ॥२॥ वच्छिष्या मुनिसुन्दरगुरवो जयचन्द्रप्रयोऽभूवन् । पारगतागमजलनिधिपारगता रुचिरगुणनिलयाः ॥३॥ तच्छिष्या विजयन्ते, धतः श्रीसूरिमन्त्रमहिमभरम् । श्रीयुक्तरलशेखरगुरव उदयनन्दिपरिवराः ॥४॥
"Aho Shrutgyanam"

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406