Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya
View full book text
________________
श्रीशुभशीलगणिविरचिता
उक्कं च--
चउदसपुवी आहारगा य, मणनाणिवीयरागा य । इंति पमायपरवसा, तयणंतरमेव चउगइआ ॥१६॥ न तं चोरा विलुपंति, न तं अम्गी विणासए ।
न तं जुएण हरिज्जा, जं धम्मम्मि पमत्तओ ॥१७॥ एवं नोदिता गुरुभिः साधवो न प्रमादं तत्यजुः । ततो गुरवो दभ्यु:-अमी साधवः प्रमादिनस्त्याच्या एव ! यतः
छंदेण गओ छदेण आगओ चिट्ठए य छदेण ।
छंदे य वट्टमाणो, सीसो छदेण मोत्तव्यो ॥१८॥ एवं ध्यात्वा साधून प्रमादं त्याजयितुं शय्यातरस्य श्राद्धस्य शिक्षा दत्वा गुरवो रात्रौ छन्नं निर्गत्य सुवर्णभूमौ स्वशिष्यसागरचन्दसमीपे ययुः । तदा वृद्धं साधुमागच्छन्तं दृष्ट्वाऽभ्युत्थाय सागरचन्द्रसूरिः प्राह-अस्मिन् विजने भवद्भिः स्थीयताम् । ततो गुरुवस्तत्र स्थिताः । सागरचन्द्रेण नोपलक्ष्यन्ते । व्याख्यानं कृत्वा सागरचन्द्रसूरिः प्राह-मयाऽय व्याल्यानं कीटक् कृतम् ! । गुरवो जगुः-विशिष्टम् । ततः सागरचन्द्रः स्वव्याख्यानकल्या इष्टः । ततो द्वाभ्यां सरिभ्यां धर्मस्थापनोत्थापनाभ्यां विवादः कृतः । सागरः प्राह---
नेवास्ति धर्मः परलोकशर्मकद , न तावदास्ते परलोक एव सः ।
साक्षादभावात् परलोकिनस्ततः, पुण्यस्य पापस्य भुनक्तु का फलम् ? ॥१९॥ कालिकसूरिराह
अहं सुखी दुःख्यभूवमित्युदित्वरः, संपत्ययः कस्यचनापि जानुचित् । नायं समुन्मीलति भूतसंचयाधिकं विनाऽऽत्मानमवाधयान्वितम् ॥२०॥ आत्माऽस्य संवेदनतः प्रतीयते, स्वाले परान् प्रत्यनुमानतोऽमुतः ।
तथा च सर्वत्र हि बुद्धिपूर्वकोत्यायाः कपाया उपलम्भतः खलु ॥२१॥ इतो यतयः पश्चादात्रावृत्थिता यावद् गुरुन् शन्दयन्ति, तावत् कोऽयुत्तरं न वदति । ततः शून्यचित्ताः शय्यातरं श्रावकं पृच्छन्ति स्म । गुरवः कुत्र सन्ति । स प्राह-अई. किं जाने, यूयमेवात्मनो गुरूणां स्थितिं न जानीथ ।। ततस्ताडिताः शय्यातरेणेति साधवः । गुरवो युष्माननुक्त्वा गताः, गुरूणां स्थितिरुक्ता । ततस्ते साधवः प्रमादं त्यक्त्वा गुरुतविधिना चारित्रं पालयन्ति स्म । गुरुभिवालुकाभिर्भरणिक कृत्वा पुना रिक्तीकृत्य पुनर्मृत्वाऽर्द्धभरणिक बालकानां दर्शयित्वा प्रोकम् -गौतमस्वामिपार्थात् पतन्ती विधा वर्तते वालुकान्यूनदर्शनात् ।।
एकदा कालकसूरिः प्रतिष्ठानपुरे चतुर्मासी स्थिताः सन्ति । तदा प्रथमस्वर्गस्वामीन्द्रो महाविदेहक्षेत्रे श्रीसीमन्धर नन्तुं गतः । तत्र श्रीसीमन्धरोऽकथयत्-भरतक्षेत्रे शत्रुनयतीर्थ सर्वतीर्थेभ्य उत्कृष्टं समस्ति । कालिकसूरिदिशं निगोदस्वरूपं कथयति तादृशोऽन्यः कोऽपि तत्र नास्ति । तत इन्द्रो वृद्धविप्ररूपं कृत्वा सार्दै प्रहरसमये गुरुपार्वे समागात् । गुरुं प्रणम्य विप्रको जगौ-अहं वृद्धोऽभूवम् , ममायुः कियदस्ति । अहमनशनं जिघृक्षुरस्मि । ततो गुरुभिर्विलोक्य ज्ञानेनोक्तम्तव सागरद्वयमितमायुरस्ति । तत इन्द्रेण स्वरूपं प्रकटीकृतम् । निगोदविचारो यादृशः श्रीसीमन्धरस्वामिना प्रोतः सादृशो गुरुणाऽयुक्तः । तत इन्द्रोऽवक्-त्वं शत्रुञ्जयतीय भरते प्रोकं श्रीसीमन्धरस्वामिना [ततस्तुभ्यं] नमः । तत इन्द्रोऽवक्-यावत् साधव आयान्ति तावत् स्थास्याम्यहम् । गुरवो जगुः-तब रूपं दृष्या साधवो निदानं करिष्यन्ति वाधारघई
"Aho Shrutgyanam"

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406