Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya
View full book text
________________
कालिकाचार्यकथा । लिशोथर्णिकमरोलदशमोदेशकचूर्णिवचनाद् भाद्रपदसुविचतुमिव पश्चादपि श्रीपर्युषणापर्वाभूत् । तत्परम्परया च सांप्रतमपि चतुया क्रियमाणमस्ति-इति सम्यक् समाधानम् ॥
अथ श्रीकालिकाचार्याः सुखेन संयम पालयन्तस्तत्र तिष्ठन्ति, परं कालवशेन शिष्याः प्रमादिनो जाताः। गुरुभिः बहुप्रेरिता अपि गलितगाव इव न क्रियानुष्ठानादिकं कुर्वन्ति । ततः श्रीकालिकाचार्याः शय्यातरश्रावकस्य सवी वाती कथयित्वा शिष्यान् सुप्तानेव मुक्त्वा स्वयमेकाकिन एव स्वर्णपुरे नगरे सागरचन्द्राचार्यस्य निजपौत्रस्य प्रशिष्यस्योपाश्रये गत्वैकदेश मार्गेयित्वा तस्थुः । परं न केनापि उपलक्षिताः । प्रभाते सागरचन्द्रेण सभापतो विशेषतो नानारागालापेन मधुरध्वनिना महताऽऽडम्बरेण व्याख्यानं कृत्वा पृष्टम्-अहो वृद्ध ! कथय मया कीदृशं सभारञ्जन(क) व्याख्यानं कृतम् । ततः कालिकाचार्यैः प्रोक्तम्--भव्यं कृतम् । ततः सागरचन्द्रेण साहङ्कारेण प्रोक्तम्-अहो वृद्ध ! तव कोऽपि सिद्धान्ते यदि संदेहो भवेत् तदा पृच्छ । तदा कालिकाचार्यैः प्रोक्तम्-धर्म श्रद्दधानैरपि तद्गर्वोत्तारणार्थम्-धमोऽस्ति किं वा नास्ति -[इति पृष्टम्] । तेनोक्तम्-धर्मोऽस्ति । कालिकाचार्यैः प्रोक्तम्-धर्मो नास्ति । अत्र द्वयोरपि महान् तर्कवादो जातः । धर्मस्थानपनोत्थापनयोरनेकशो युक्तयः सन्ति, ताः तार्किकैः स्वयं वायाः । मया प्रन्थगौरवभिया न लिखिताः । [अत्र स्थाने बृहत्खरतरगच्छीयसाधुभिः परस्परं तर्कवादो विधीयते, कृते श्रुते च तस्मिन् वर्ष यावत् परमश्रेयो भवति, इति प्रवर्तमानपरम्परा दृश्यते । तथाकृते वादे श्रीकालिकाचायः सागरचन्द्रो जितः । ततस्तेन ज्ञातम्-नायं वृद्धः सामान्यः, किन्तु कोऽपि सातिशयी वर्तते ।
इतश्च पृष्ठतः प्रमादिनः शिष्याः दिनोदये सुप्तोत्थिताः स्वगुरुमपश्यन्तो विलक्षणा: सन्तः परस्परं पृच्छन्ति । तदवसरे शय्यातरश्रावकेणोक्तम्-रे कुशिष्याः यूयं गुरुशुद्धिमपि न जानीथ ! तदात्याग्रहेण पृष्टेन शय्यातरश्रावकेण प्रोकम्-गुरुवः सागरचन्द्रपार्वेस्वर्णपुर्या गताः। ततः सर्वेऽपि शिष्याः संघाटकत्रयं कृत्वा स्वर्णपुरं प्रतिचलिताः, पथि लोकाः पृच्छन्ति- क श्रीकालिकाचार्य: । पृष्ठगा वदन्ति-अग्रे, अप्रगा वदन्ति-पृष्ठे समाग छन्ति । एवं ते तत्र प्राप्ताः । सागरचन्द्रोऽपि गुर्वागमं श्रुत्वा सम्मुखं चलितः, पृष्टं च-क गुरवः ! ! तैरुक्तम्-ते तु तव पावें पूर्वमागताः सन्ति । ततो ज्ञातम्-हुं ते एव । ततः सर्वशिष्यैः सागरचन्द्रेण तत्रागत्य वन्दिताः क्षामिताश्च । अत्र सर्वेऽपि सुखेन संयम पालयन्तस्तिष्ठन्ति ॥
अथ तदवसरे श्रीसीमन्धरस्वामिपावें गत्वा निगोदविचारान् श्रुत्वा प्रोवाच-हे स्वामिन् । एतादृशं निगोदविचारं कोऽपि भरतक्षेत्रे जानाति । भगवता प्रोक्तम्-भरतक्षेत्रे प्रतिष्ठानुपुरे कालिकाचार्यः । तत इन्द्रो ब्राह्मणरूपं कृत्वाऽगत्य पृच्छति स्म-हे भगवन् ! निगोदविचारं वदत। गुरुभिः प्रोक्तम्--
गोला प असंखिज्जा, असंस्खनिग्गोयओ इवइ गोलो ।
इक्विकम्मि निगोए, अणंतजीवा मुणेयव्वा ॥३४॥ इत्यादिसूक्ष्मविचारगहनं श्रुत्वेन्द्रो हर प्राप्य हस्तं दर्शितवान हे भगवन् ! ममायुः कियदस्ति ? । स्तोकं स्यात् तदा मरणं साधयामि । ततो गुरुभिः विलोकितम्-वर्षशतात् सहनालक्षात् कोटितोऽप्यधिकम् । ततो सागरोपमत्त्वरूपं दृष्ट्वा उक्तम्-है इन्द्र ! धर्मलामोऽस्तु ! तत इन्द्रः प्रकटीभूय दशदिश उद्योतयन् वन्दित्वाऽस्तवीत् । हे पूज्य ! सीमन्धरस्वामिना स्वं निगोदविचारपारगः कथितः, स प्रत्यक्षं दृष्टः, इत्युक्त्वा गच्छन् गुरुणोक्त:-गोचरीगताः शिष्या आगच्छन्ति तावत् तिष्ठ, तेऽपि त्वां सहर्ष पश्यन्ति । इन्द्रेणोक्तम्-मद्रूपमोहिता मा निदानं करिष्यन्ति । उपाश्रयद्वारं परावृत्य देवलोकं
"Aho Shrutgyanam"

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406