Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 388
________________ २१६ श्रीशुभशील गणिविरचिता राजचक्रं समाक्रम्य, ददुगू (दुर्दुरू) ढोऽतिमूढधीः । अविनीतः प्रकृत्याभूत्, दत्तो द्वेषस्य भाजनम् ||४|| स दत्तो राजा यागं कारयन् भूरिजीवान् निरन्तरं हन्ति । यथा यथा यागे हन्यमानानां पशूनां रुधिरप्रवाहः प्रससार तथा तथा स दत्तो राजा जहर्ष । अन्यदा श्रीसूरिपदप्राप्तः कालिकाचार्यस्तत्रागात् । तमागतं तत्र सूरिं श्रुत्वा दत्तस्तत्राय । तेन राज्ञाऽन्यदा यज्ञफलं पृष्टो गुरुरुवाच धर्मात् त्रिविष्टपप्राप्तिरधर्मान्तरकप्राप्तिर्ध्रुवम् । ततो भूयोऽपि तेन राजा यज्ञफलं पृष्टो गुरुर्नरकमादिदेश । तव श्वभ्रगतिर्भविष्यति । यतः- अस्थि वसति रुद्र, मांसे वसति जनार्दनः । शुक्रे वसति ब्रह्मा च तस्मान्मासं न मक्षयेत् ||१५|| तिळकसर्वपमात्रं तु, मांसं यो भक्षयेन्नरः । स निर्वर्तते नरकं यावचन्द्रदिवाकरौ ||६|| भो राजन् ! सप्तदिनमध्ये यदि तवानने विष्ठालेशः पतिष्यति तदा त्वया ज्ञातव्यं नरकगतिः स्वस्य । तदार्ना रुष् राजाऽवग्-भो मातुल ! तब का गतिर्भविष्यति । गुरुराचष्ट - अहं वतं प्रपात्य स्वर्गे यास्यामि । तदानों दत्तेन स्वसेवकपादसिना हन्यमानोऽपि श्रीकालिकाचार्यो जगौ-यागो नरकाय भवति । उक्तं च--- दत्तेण पुच्छिओ जो, जन्नफलं कालओ तुरमिणीए । समयाहियाहिएणं, सम्मं बुइयं मयतेणं ॥ ७॥ दत्तेन ध्यातं यद्यहं सप्तदिनेभ्यः पुरतो जीविष्यामि तदा कालिकाचार्यममुं हनिष्यामि । ततस्तस्य सुरेरन्तिके स्वसेवकानू मुक्त्वा स दुष्टमतिदत्तः सौधमध्ये सप्तदिनानि स्थातुं स्थितः । इतो जितशत्रुभूपभक्तैौर्जितशत्रुभूपो राज्यदानार्थं प्रकटीच प्रच्छन्नम् । इतो रक्ष्यमाणेषु राजमार्गेषु अशुचिषु वस्तुषु अपसार्यमाणेषु सप्तमे दिने दत्तो राजा दृष्टतुरगारूढोऽष्टमदिन भ्रान्त्या ध्रियमाणातपत्रो राजमार्गे निस्ससार । इतो मालिकः पुष्पपूर्ण करण्डयुतो राजमार्गे समागात् । भेर्यादिनिनादैः श्रुतमात्रैरकस्मात् तस्यात्यन्तं मलोत्सर्गचिन्ताऽभून्मालिकस्य । लोकबाहुल्यादन्यत्र गन्तुमशक्नुवन् षलक्षतया त्वरितं मत्स तत्रैव कृत्वा तस्योपरि पुष्पपुत्रं मुक्त्वा मालिकोऽग्रतो गतः । तदा राज्ञो दत्तस्य तस्मिन् मार्गे गच्छतस्तुरङ्गमखुरोत्खातो विट्लेशो वदनेऽविशत् । स राजा दत्तस्तेन प्रत्ययेन पश्चाद यावद् गृहाभिमुखं समायाति तावन्मन्त्रिनियुक्तैः सेवकैदत्तो हतः । स दत्तो मृत्वा सप्तमं नरकं गतः । स जितशत्रुभूपः स्वराज्ये उपविष्टः । ततस्तं कालकाचार्य भूपो निषेवते स्म, जिनधर्मे चाङ्गीचकार ॥ ( २ ) श्रीपुरे प्रजापालभूपस्य राजी पुत्रं प्रासूत । तस्याभिधानं कालिककुमार इत्यभूत् । पुत्री तु भानुश्रीरासीत् । कालिककुमारः श्रीगुरुपार्श्वे धर्म श्रुत्वा दीक्षां ललौ । स च बहुश्रुतोऽभूत्, गुरुभिः सूरिपदं दत्तम् । इतो राज्ञा भानुश्रीभृगुकच्छे जितारिभूपस्य दत्ता । तस्याः सुतौ बालमित्र - भानुमित्रौ । तयोर्भागिनेयो बलभानुरभूत् । एकदा तत्र गुरवः कालिकसूर भागताः । तत्र धर्मोपदेशं श्रुत्वा बालभानुदीक्षां जग्राह । तदा गुरुसत्कैः क्षुल्लकैर्गङ्गाधरः पुरोहितो वादे जितः । एकदा गुरवो विहारं कृत्वा तत्रागताः, बलमित्र - भानुमित्रयोराप्रहाद् गुरवस्तत्र चातुर्मासों स्थिताः । ततो गङ्गाधरपुरोहितस्तान् गुरून् कर्षितुमिच्छन् पूर्ववैराद मूपाने छनं जगौ देव ! इमे जइपुज्जा, भमंति नहिं तत्थ गच्छरम्मि जणे । गुरुपयअकमणकमा, होइ अवन्ना दुरिअऊ ||८|| "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406