Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 382
________________ २१० श्री अज्ञात सूरिविरचिता गतः । शिष्या आगता द्वारमपश्यन्तः शब्दं कुर्वन्तो नव्यद्वारेण गुरुणा प्रवेशिताः । शिष्यैः विज्ञप्तम्- कथमेतत् १ | गुरुभिः सर्वमिन्द्रस्वरूपं निवेदितम् । ततः श्रीकालिकाचार्याश्चिरं निर्मलं चारित्रं प्रतिपाल्य प्रान्तेऽनशनं विधाय समाधिना देवलोकं प्राप्ताः । ततः श्रीकालिकाचार्या महाप्रभावकाः स्थवि बभूवुः । तेष सम्बन्ध उक्तः । अथ प्रभाते साधुसामाचारी वक्ष्यते सा वर्त्तमानयोगेनैवम् एके दानं ददति, एके शीलं पालयन्ति, एके तपस्तपन्ति, एके भावनां भावयन्ति, स विधिचैत्यालयपूज्यमानश्री शान्तिनाथशासनाधीश्वर श्रीवर्धमानतत्पानुक्रमेण श्रीसुधर्मस्वामो तावद् यावद् युगप्रधान श्री जिनचन्द्रसूरि - श्रीजिनसिंहसूरीणां प्रसाद:, तेषामाज्ञया च श्रीसंघः प्रवर्त्तताम् ॥ श्रीमद्विक्रमसंवत, रस-ई- शृङ्गारसंख्यके सहसि (१६६६) । श्रीवीरमपुरनगरे, राउलनृपतेजसी राज्ये ॥३५॥ श्री बृहत् खरतरगच्छे, युगमधानसूरयः । जिनचन्द्रा जिनसिंहाथ, विजयन्ते गणाधिपाः || ३६ || तच्छिष्यः सकलचन्द्रः शिष्यः समयसुन्दरः । कर्या कालकसूरीणां चक्रे बालावबोधिकाम् ||३७॥ इति श्रीकालिकाचार्यकथा समाप्ता ॥ प्रन्थाप्रम् - ४४१ ॥ [२४] अज्ञातसूरिविरचिता कालिकाचार्यसंक्षिप्तकथा ॥ THE CONTINE जीयात् स कालकाचार्यः, प्रभावकशिरोमणिः । पञ्चमीततुर्थ्यां चक्रे पर्युषणामिमाम् ॥१॥ पुरा पुरे धरावासे, विस (शु) द्धासव (शय)वद्वशी । वैरिसिंहो नृपोऽस्य स्त्री, शचीव सुरसुन्दरी ॥२॥ कलानिधिः शशीवासीत्, तत्पुत्रः कालकाहयः । सरस्वतीव (च) तत्पुत्री, प्रत्यक्षेत्र सरस्वती ॥३॥ निवृत्तो बाइकेलीतो, योधपश्चशतीयुतः । वने गुणाकरं सूरिं, सत्याख्यं स निरक्षत ॥४॥ उपाविशद् गुरुर्जीवयौवनस्नेहसंपदः । कुशाग्रजळवल्लोळा, ज्ञात्वा स्वोचितमाचर ||५॥ वद्देशना सुधापानशान्ताज्ञानगरन्यथः । सरस्वती भटान्वितः, कालकोऽकलयद् व्रतम् ॥६॥ " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406