Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 372
________________ २०२ श्रीसमयसुन्दरगणिविरचिता तपान्यो तउही कांचण, घस्यउ तउही चंदण ! लहुडउ तउही सीह, धुंधलउ तउही दीह । नान्ही तउही नागिणी, निरसी तउही सोहागणी'। ततो यदि एतामितोऽपहृत्य ममान्तःपुरे मुश्चामि, स्नान-मज्जनादि सम्यगुपचरामि, मनोज्ञाहारादिना पोषयामि, तदा मम स्त्रीरत्नं भविष्यति । एतां विना च मम राज्यश्रीरपि निष्फला, मम जीवितं च वृथा ज्ञेयम्-इत्येवं तां कामप्रहप्रस्तेन गर्दभिल्लेन श्येनेन चटकेव निजसेवकपार्वाद् नानाविधं विलपन्तीमुत्पाटयित्वा निजान्तःपुरे क्षिप्ता । विलापस्त्वेवम् हे बान्धव ! हे सुगुरो ! हे अनेकगुणप्रधान ! हे चतुरबुद्धिनिधान ! हे जिनशासननायक ! हे भव्यजीवसुखदायक ! हे जिनशासनशृङ्गार ! हे गच्छाधार ! हे भागमस्याकर ! हे करुणासागर ! हे भ्रातः ! हे कालिकाचार्य ! गर्दभिल्लेन राज्ञा पापिष्ठेन शीलस्वण्डनेच्छानिष्ठेन मम सर्वथाऽप्यनिष्टेन मामनाथामिवापहरन्ती रक्ष रक्ष इति । तदा अन्या अपि साध्व्यः पूकारं चक्रुः । लोका अपि हाहाकार वितेनिरे । ततो महाकोलाहलो जातः । ततः शीघ्रं साध्वीभिः सर्वोऽपि वृत्तान्तः श्रीकालिकाचार्यस्य निवेदितः-भवदीयभगिनी सरस्वती साध्वी गर्दभिल्लेनापहत्य निजान्तःपुरे क्षिप्ताऽस्ति । न ज्ञायतेऽथ क भविष्यति । ततः श्रीकालिकाचार्याः कोपाकान्ताः कतिपयशिष्यः सहिता राजपाचे जग्मुः । सौम्यशीतलन्यायवचनैः प्रोक्तम्हे राजन् ! एषा साध्वी मम भगिनी, तत्रापि शीलवती, तत्रापि पश्चमहानतधारिणी, एतस्या वैमनस्यकरणे महाकर्मबन्धो भविष्यति । अपि चान्योऽपि नगरमध्ये दुष्टमतिः दुःशीलश्च भविष्यति स तव निवार्यों भविष्यति, परं यदि त्वमेवान्याय करिष्यसि तदा तव निवारकः को भविता ! अपि च यत्र नगरे राजैव चौरोऽन्यायो च तत्र लोका नगरं मुत्क्वा वनमेव भजन्ति । यदुक्तम् यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च ।। वनं भजध्वं ननु नागरा भो !, यतः शरण्याद् भयमत्र जातम् ॥१६॥ इति । पुनः कालिकाचार्यैः प्रोकम्-हे राजन् ! अन्तःपुरे बहल्यो रूपक्त्यश्चातुर्यकलावत्यो युक्त्यो रमणीयाः सन्ति, तासामुपरि संतोष कुरु, परं माऽनयाऽस्थिमात्रया मलमलिनगात्र्याऽतिजीर्णवख्या साध्या समं किं सुखमनुभविष्यसि । ततो मुश्चनां यथा धर्मशालायां गत्वा एषा संयम पालयिष्यति । एतादृशानि श्रीकालिकाचार्यवचनानि श्रुत्वा गर्दभिल्लो मौनमाधाय श्रुतमप्यश्रुतं कृत्वा स्थितः, समुत्थाय चान्तःपुरे गतः । ततः श्रीकालिकाचायश्चिन्तितम्-अथ कोऽपि नवीन उपायः क्रियते । ततः श्रीकालिकाचार्या उपाश्रयमागत्य सहाने सर्वस्वरूपं प्रोक्तवन्तः । ततः सङ्केन चिन्तितम्-आचार्यवचनं न मानितम्, परमस्मद्वचनं मानयिष्यति । ततः प्रभूतं प्राभृतं लात्वा सङ्घोऽपि भूपाने गतः । राज्ञा पृष्टम्-कथं भो ! महाजनैः समागतम् !, कि कार्यम् !! संघेनोक्तम्-वं मालयकदेशस्वामो तवेदृशं कुकर्म कर्तुं न युक्तम् । यतो राजा पितेव प्रजाः प्रतिपालयति, विशेषतो दर्शनिनां तपस्विनां वर्गम्, ततो मुञ्चेमां साध्वीम्, इत्यादि बहुतरं प्रोक्तम्, परं स कुकर्मा कामी राजा न मुञ्चति । ततः संधेन यथागतेन तथाऽऽगतेन श्रीसूरीणां प्रोक्तम् । ततः श्रीकालिकाचार्येण कोपाक्रान्तेन संघाने प्रोक्तम्-अहं समर्थः सन् जिनशासनप्रत्यनीकानां यदि शिक्षा न दनि तदा जिनाजाविरोधकत्वेन दुर्गतिकः स्याम् । यदुक्तम्--- ये प्रत्यनीका जिनशासनस्य, संघस्य ये चाशुभवर्णवाचः । उपेक्षकोडाइकरा धरायां, तेषामहं यामि गति सदैव ॥१७॥ ततः प्रतिज्ञा चक्रे यदाऽहं गर्दभिल्लं सराज्य नोन्मूलयामि तदाऽहं न कालिकाचार्यः । ततः स्वगच्छभारं गीतार्थेषु स्थापयित्वा स्वयमाथिलोऽपि प्रथिलीभ्य कर्दमादिना गात्रमनुलिम्पन्, नगरमध्ये भ्रमन् , वक्ति-यदि गर्दभिल्लो "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406