________________
२०२
श्रीसमयसुन्दरगणिविरचिता
तपान्यो तउही कांचण, घस्यउ तउही चंदण ! लहुडउ तउही सीह, धुंधलउ तउही दीह । नान्ही तउही नागिणी, निरसी तउही सोहागणी'।
ततो यदि एतामितोऽपहृत्य ममान्तःपुरे मुश्चामि, स्नान-मज्जनादि सम्यगुपचरामि, मनोज्ञाहारादिना पोषयामि, तदा मम स्त्रीरत्नं भविष्यति । एतां विना च मम राज्यश्रीरपि निष्फला, मम जीवितं च वृथा ज्ञेयम्-इत्येवं तां कामप्रहप्रस्तेन गर्दभिल्लेन श्येनेन चटकेव निजसेवकपार्वाद् नानाविधं विलपन्तीमुत्पाटयित्वा निजान्तःपुरे क्षिप्ता । विलापस्त्वेवम् हे बान्धव ! हे सुगुरो ! हे अनेकगुणप्रधान ! हे चतुरबुद्धिनिधान ! हे जिनशासननायक ! हे भव्यजीवसुखदायक ! हे जिनशासनशृङ्गार ! हे गच्छाधार ! हे भागमस्याकर ! हे करुणासागर ! हे भ्रातः ! हे कालिकाचार्य ! गर्दभिल्लेन राज्ञा पापिष्ठेन शीलस्वण्डनेच्छानिष्ठेन मम सर्वथाऽप्यनिष्टेन मामनाथामिवापहरन्ती रक्ष रक्ष इति । तदा अन्या अपि साध्व्यः पूकारं चक्रुः । लोका अपि हाहाकार वितेनिरे । ततो महाकोलाहलो जातः । ततः शीघ्रं साध्वीभिः सर्वोऽपि वृत्तान्तः श्रीकालिकाचार्यस्य निवेदितः-भवदीयभगिनी सरस्वती साध्वी गर्दभिल्लेनापहत्य निजान्तःपुरे क्षिप्ताऽस्ति । न ज्ञायतेऽथ क भविष्यति ।
ततः श्रीकालिकाचार्याः कोपाकान्ताः कतिपयशिष्यः सहिता राजपाचे जग्मुः । सौम्यशीतलन्यायवचनैः प्रोक्तम्हे राजन् ! एषा साध्वी मम भगिनी, तत्रापि शीलवती, तत्रापि पश्चमहानतधारिणी, एतस्या वैमनस्यकरणे महाकर्मबन्धो भविष्यति । अपि चान्योऽपि नगरमध्ये दुष्टमतिः दुःशीलश्च भविष्यति स तव निवार्यों भविष्यति, परं यदि त्वमेवान्याय करिष्यसि तदा तव निवारकः को भविता ! अपि च यत्र नगरे राजैव चौरोऽन्यायो च तत्र लोका नगरं मुत्क्वा वनमेव भजन्ति । यदुक्तम्
यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च ।।
वनं भजध्वं ननु नागरा भो !, यतः शरण्याद् भयमत्र जातम् ॥१६॥ इति । पुनः कालिकाचार्यैः प्रोकम्-हे राजन् ! अन्तःपुरे बहल्यो रूपक्त्यश्चातुर्यकलावत्यो युक्त्यो रमणीयाः सन्ति, तासामुपरि संतोष कुरु, परं माऽनयाऽस्थिमात्रया मलमलिनगात्र्याऽतिजीर्णवख्या साध्या समं किं सुखमनुभविष्यसि । ततो मुश्चनां यथा धर्मशालायां गत्वा एषा संयम पालयिष्यति । एतादृशानि श्रीकालिकाचार्यवचनानि श्रुत्वा गर्दभिल्लो मौनमाधाय श्रुतमप्यश्रुतं कृत्वा स्थितः, समुत्थाय चान्तःपुरे गतः । ततः श्रीकालिकाचायश्चिन्तितम्-अथ कोऽपि नवीन उपायः क्रियते । ततः श्रीकालिकाचार्या उपाश्रयमागत्य सहाने सर्वस्वरूपं प्रोक्तवन्तः । ततः सङ्केन चिन्तितम्-आचार्यवचनं न मानितम्, परमस्मद्वचनं मानयिष्यति । ततः प्रभूतं प्राभृतं लात्वा सङ्घोऽपि भूपाने गतः । राज्ञा पृष्टम्-कथं भो ! महाजनैः समागतम् !, कि कार्यम् !! संघेनोक्तम्-वं मालयकदेशस्वामो तवेदृशं कुकर्म कर्तुं न युक्तम् । यतो राजा पितेव प्रजाः प्रतिपालयति, विशेषतो दर्शनिनां तपस्विनां वर्गम्, ततो मुञ्चेमां साध्वीम्, इत्यादि बहुतरं प्रोक्तम्, परं स कुकर्मा कामी राजा न मुञ्चति । ततः संधेन यथागतेन तथाऽऽगतेन श्रीसूरीणां प्रोक्तम् । ततः श्रीकालिकाचार्येण कोपाक्रान्तेन संघाने प्रोक्तम्-अहं समर्थः सन् जिनशासनप्रत्यनीकानां यदि शिक्षा न दनि तदा जिनाजाविरोधकत्वेन दुर्गतिकः स्याम् । यदुक्तम्---
ये प्रत्यनीका जिनशासनस्य, संघस्य ये चाशुभवर्णवाचः ।
उपेक्षकोडाइकरा धरायां, तेषामहं यामि गति सदैव ॥१७॥ ततः प्रतिज्ञा चक्रे यदाऽहं गर्दभिल्लं सराज्य नोन्मूलयामि तदाऽहं न कालिकाचार्यः । ततः स्वगच्छभारं गीतार्थेषु स्थापयित्वा स्वयमाथिलोऽपि प्रथिलीभ्य कर्दमादिना गात्रमनुलिम्पन्, नगरमध्ये भ्रमन् , वक्ति-यदि गर्दभिल्लो
"Aho Shrutgyanam"