________________
कालिकाचार्यकथा ।
२०३ राजा ततः किम् !, यदि तस्य नगरं महत् तर्हि किम् ?, यदि गर्दभिल्लस्य अन्तःपुरस्रियो बहळ्यः ततः किम् !, यदि राज्ञो भाण्डागार-कोष्ठागार-हस्ति-तुरङ्गम-रथ-पदातयो बयः ततः किम् ?, यदि राजा प्राज्यं साम्राज्यं भुनक्ति तदा मम किम् ! । इत्येवं प्रलपन्तं प्रतिमार्ग प्रतिगृहं भ्रमन्तं कालिकाचार्य दृष्ट्वा नगरवासिनो लोकाः सामन्त-श्रेष्ठि-सेनापतिमन्त्रिप्रमुखा एकीभूय राज्ञः समीपे गत्वा एवं प्रोक्तवन्त:-हे राजेन्द्र | अयं महापुरुष आचार्यों निजभगिनीस्नेहाद प्रथिलो जातः ततः कृपां कृत्वा साध्वी मुश्च यथाऽयं सजो भवति । इत्यादिवचनानि श्रुत्वा कुपितो राजा वक्तुं प्रवृत्तः-रे लोकाः ! यात यात मम दृष्टितः, एवंविधां शिक्षा निजगृहे निजमातृ-पितृ-भ्रातृ-कलत्रादीनां दत्त । ततः सामन्तादयो लोका विलक्षीभूय स्वगृहं जग्मुः। श्रीआचार्यैरपि श्रुतं यत् ' सामन्तादिवचनमपि न मानितम् ', अथ यदि तेनाधमेनातितानित तर्हि त्रुटत्येव, यतः
अतिताण्युं त्रुटइ, अतिभयुं फुटइ ।
अतिखाधुं खूटइ, अतिढीली गांठि छूटइ ॥१८॥ तस्मात् किश्चिद् वैरूप्यं कर्तव्यम् । अत्रापि न स्थातव्यं च, कुत्रापि देशे गत्वा कमप्युपायं करोमि, इति निश्चित्य श्रीकालिकाचार्याः सिन्धुनदीतटे पश्चिमदिशि एकः पार्श्वकूलो देशोऽस्ति, तत्र गताः, तत्र देशे ये राजानस्ते सर्वेऽपि 'साखी' इति कथ्यन्ते । तत्रैकस्य साखीभूपस्य नगरसमीपे महात्मवेषेण गताः । तस्मिन् प्रस्तावे तत्रैका कृषिका वर्तते । तत्पाचतो बहवः कुमारा भ्रमन्तो दृष्टाः, पृष्ट च-भो । किं विलोक्यते । ते प्राहुः-भो परदेशिन् ! अस्माकं रममाणानां मणिमयकन्दुकः कूपिकायां पतितः, प्रवेष्टुं न शक्यते, बहिःस्थितानां च न निस्सरति । ततो क्यं विलक्षीभूताः सन्त इतस्ततो भ्रमामः । आचार्या प्राहुः-भो कुमाराः ! गृहाद् धनुर्बाणानानयत यथा फन्दुकं निष्कास्य ददामि । ततस्तैस्तथा कृतम् । तत आचार्यैः आर्द्रछगण-वेष्टन-ज्वलत्तृणक्षेपणपूर्व धनुराकृष्यैकेन बाणेन कन्दुको विद्रः, द्वितीयेन बाणेन प्रथमो बाणो विद्धः, एवं तृतीयेन द्वितीयः, इत्येवं परम्पस्या विद्धबाणप्रयोगेन कूपकण्ठस्थितैरेव कन्दुको निकास्य कुमाराणां दत्तः । सर्वेऽपि कुमारा हर्षिताः सन्तो विस्मयमादधानाः स्वस्वगृहं गस्खा एवं प्रोचुः-हे तात ! अधैकः कोऽपि परदेशी परदेशात् कलावान् समेतोऽस्ति, तेनास्माकं कूपे पतितः कन्दुको निष्कास्य दत्तः । सर्वोऽपि वृत्तान्तः कथितः ।
ततः तन्नत्यसास्त्रीभूपैः निजपुत्रान् मुत्तवा सादरं स्वगृहे श्रीकालिकाचार्याः सामनीताः । ततः सूरिभिराशीर्वादो राज्ञे दत्तो यथा
चिरं जीव चिरं नन्द, चिरं पालय मेदिनीम् ।
चिरमाश्रित्यलोकानां, भपूरय मनोरथान् ॥१९॥ पुनरपि
पौषमासे निराहारा बवाहाराच कार्तिके ।
चैत्रमासे गुदाहारा भवन्तु तत्र शत्रवः ॥२०॥ ततः साखीराजेनापि विद्याकलाचातुर्यचमत्कृतेनातिबहुमानसन्मानादि दत्वा निजपाचे रक्षिताः । विद्यावन्तो हि पूज्यन्ते, यदुक्तम्
विद्वत्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥२१॥
"Aho Shrutgyanam"