________________
श्रीसमयसुन्दरगणिविरचिता
पुनरपिविधा नाम नरस्य रूपमधिकं प्रच्छन्मगुप्तं धनं,
विद्या भोगकरी यशामुखकरी विद्या गुरूणां गुरु । विधा बन्धुजनो विदेशगमने विद्या परं दैवत,
विया राजमु पूज्यते न हि धनं विद्याविहीना पशुः ॥२२॥ अपि च विधावता परदेशोऽपि स्वदेशः, यदाह
कोऽतिभारः समर्थानां, किं ट्रे व्यवसायिनाम् ।
को विदेशः सुविद्यानां, कः परः प्रियवादिनाम् ॥२३॥ अथ कालिकाचार्यास्तत्र तिष्ठन्ति । प्रत्यहं साखीराजस्य समीपे यान्ति, नानाविधचेतश्चमत्कारकारिज्योतिर्निमितादिविधया राज्ञश्चित्तं रखयति । राजापि अत्यन्तहृष्टतुष्टमनस्को गुरूणामतिबहुमान दत्ते । एवं च सति गतानि कियन्ति दिनानि । तदवसरे एकदा एको दूत एक कचोलकं छुरिकासहितं लेख चाने मुक्त्वा राज्ञः प्रणम्य सन्मुखं स्थितः । ततः साखीराजो लेखं वचायित्वा तद् विलोक्य च श्याममुखो बभूव । ततः श्रीकालिकाचार्यैरुक्तम् भवतां स्वामिप्राभृतं समागतम् , तत्र हों विलोक्येत, ततो हर्षस्थाने विषादः कथम् ? । राजा प्राह-अहो महापुरुष ! अद्यास्माकं मरणरूपं महाभयं जातम् । मरणादप्यधिकं भयं किमपि नास्ति, यतः
पंथसमा नत्यि जरा, दारिदसमो पराभवो नत्ति ।
मरणसमं नत्यि भयं, खुडासमा वेयणा नस्थि ॥२४॥ ततः सूरिभिः पृष्टम्-किं तद् भयम् ? । राजा प्राह-हे भगवन् ! योऽस्माकं कुद्रः स्वामी स साहानुसाही वर्तते, सेन कुपितेन लिखित पर्सते, 'यदुतानया छुरिकया निजमस्तकं छित्त्वाऽस्मिन् कच्छोलके क्षिप्वा शीघ्रं मोच्यम्, नोचेत् तब सकुटुम्बस्य क्षयो भावी'। यथा मम तथाऽन्येषामपि मम तुल्यानां ९५पश्चनवतिसाखीराजानां दूतो मुक्तोऽस्ति । अतो महाभयम् । किं क्रियते !, कुत्र गम्यते !, कथं छुट्यते । ततः श्रीकालिकाचार्यः विचारितम्-अयमवसरः, मम च कार्यम् । ततः साखीराजाय प्रोक्तम्-हे राजन् ! मा त्रियस्व, मा चिन्तां कुरु, जीवन् नरो भद्रशतानि पश्यति । यथा दृष्टान्तः
भानुश्च मन्त्री दयिता सरस्वती, मृति गा सा नृपकैतवेन ।
महातटस्थां पुनरेव लेभे, जीवन् नरो मद्रनवानि पश्येत् ॥२५॥
अत्र समये सति दृष्टान्तो वाच्यः । ततः पञ्चनवतिसाखीराजानः भवान् च सर्वेऽपि एकीभूय मया साधै चलन्तु । यथा हिन्दुकदेशे गत्या गर्दभिल्लपमुच्छेद्योज्जयिनीराज्य विभज्य भवतां समर्प्यते । ततः सूरिवचने प्रतीतिं कृत्वा लेखप्रेषणपूर्व सर्वान् ९५ राज्ञ आइयैकत्र मिलित्या प्रयाणढक्कां दापयित्वा सर्वेऽपि ९६साखीराजानः श्रीकालिकाचार्यसहितास्खलिताः, अने गच्छन्तः सिन्धुनदीमुत्तीर्य, सौराष्ट्रदेशमध्ये सुखेन समागताः । तदवसरे वर्षाकाल: प्रादुर्बभूव । स कीदृशः ! -
" आयो वर्षाकाल चिहुं दिसि घटा उमटी ततकाल । गडहाट मेह गाजइ, जाणे नालिगोला वाजइ । कालइ आमइ वीजलि झबकइ, विरहणीना हीया द्रवकइ, पपीहा बोलइ वाणिया धान वेचषा क्वार खोलइ, बोलइ मोरे, दादुर करइ सोर, अंधार घोर पइसइ चोर । कंदर्य करइ जोर, मानिनी स्त्रीभरिनइ करइ-निहोर, चंद्रसूरिज वादके छाया, पंथिजन
"Aho Shrutgyanam"