________________
कालिकाचार्यकथा । मिरचैव वने स्थातव्यम् , इति प्रतिज्ञाय स्वगृहे. गत्या माता-पित्रोः उवाच-मया गुरुदेशनया संसारोऽसारो ज्ञातः, अहं दीक्षां लास्यामि, ममादेशं दत्त । ततो माता-पितरौ तद्दुःखेन मोहेन च मूर्छामापतुः । पुनः न्यजनादिवातोपचारैः लब्धचेतनौ एवमूचतुः-रे पुत्र ! त्वं बालोऽसि, यौवनावस्थोऽसि, सुकुमारोऽसि, कामभोगार्होऽसि, अतो राज्यधुराभाराङ्गीकरणेन पूरय मासा-पिनोमनोरथान् । पुनः परिणतवयस्को दीक्षा गृहणीयाः, परं सांप्रतं दीक्षाग्रहणं नैव, पुनः संयममार्मोऽतिदुःखकरोऽस्ति, तत्र यावजी अनामता १, भूभिशयनं २, लोचकरणं ३, देहस्याप्रतिकर्मता ४, गुरुकुलवासेन गुरुशिक्षायां स्थातव्यं ५, क्षुधादिद्वाविंशत्परीषहाः सोढव्याः ६, देवाधुपसर्गे चाक्षोभ्यता ७, लब्धालन्धे समभावना ८, भट्टार(अष्टादश)सहस्रशोलारवधारिता ९, बाहुभ्यां समुद्रतरणं १०, तीक्ष्णखड्गधारोपरि चलनं ११, ज्वलदग्निज्वाला पादाभ्यां विधापयितव्या १२, निःस्वादवालुकायाः कवलभरणं १३, गङ्गाप्रतिस्रोतसा गन्तव्यं १४, तुलायो मेरुः तोलयितव्यः १५, एकाकिना कर्मारिमहाबले जेतव्यं १६, राधावेवेन चक्रस्थितपूतलिका वेधयितव्या १७, त्रिभुवनजयपताका गृहीतव्याः १८ इत्यादि । एवं दुष्करतायां दर्शितायमपि कुमारः प्रवर्द्धमानवैराग्यः प्राह-हे माता-पितरौ ! एषा या दीक्षायां दुष्करता सा सत्या। तथैव परं कातराणां कापुरुषाणां ज्ञेया, न शूरवीराणां सत्पुरुषाणाम् , ततोऽहमवश्यं दीक्षा ग्रहीष्यामि, ममादेशं दत्त । या वार्ताकरणेऽपि क्षणवेला याति सा ममायुर्मध्ये त्रुटति, भकृतार्था च वाति । सतो मातृपितृभ्यां 'याता नियमाणश्च न केनापि रोढुं शक्यते' इति बिचार्यानुमतिर्दता । ततः श्रीकालिककुमारेण कृतपितृमहामहोत्सेवेन महताऽऽडम्बरेण निजसेवकपञ्चशतीसहितेन सहनपुरुषवाहिनी शिविकामारुह्य गीतगानसानमानदानसन्मानवाघनिर्धायपूर्वमपूर्वरीत्या वने गत्वा गुरोः समीपे वीक्षा जगृहे। सरस्वत्यपि तद्भगिनी भ्रातृस्नेहातिरेकात् पृष्ठे दीक्षां जग्राह । माता-पितरौ अपि, हे पुत्र ! एषा तव भगिन्यस्ति, अस्या रक्षा बह्वी कार्या, इति शिक्षा दत्त्वा विमनस्कौ सन्तो स्वगृहे गतौ।
अथ कालिककुमारमुनिः स्तोककालेन सुबुद्धित्वाद् गुरुसेवाप्रसादाद् व्याकरण १- तर्क २- छन्दो ३-ऽलङ्कार ४-- काव्य ५-- नाटक ६- शाटक - ज्योतिष ८- वैद्यक ९- नैमित्तिक १०- मन्त्र ११- तन्त्र १२- यन्त्र १३अङ्ग १४-- उपाङ्ग १५-छेदग्रन्थ-१० पयत्ना-४ मूलसूत्र-नन्दी १- अनुयोगद्वार २- एवं १५ पञ्चचत्वारिंशदागमाः सपा सूत्र-नियुक्ति-भाष्य-पूर्णि-वृत्ति प्रकरणादि स्वसमय-परसमयशालपारगामी जाप्तः । ततो गुरुभिः योग्यतां ज्ञात्वाऽs चार्यपदे स्थापितश्च ।
अथ श्रीकालिकाचार्या अनेकसाधुपरिवृता प्रामानुप्रामं विहरन्तो भन्यजीवान् प्रतिबोधयन्तो मालवकदेशे श्रीउज्जयिन्यां पुयीं बहिरुघानवने समवसृताः । सर्वेऽपि लोका बन्दनार्थ तत्र यान्ति । धर्म च सदा शम्वन्ति । सरस्वती साध्वी अपि अनेक साध्वोपरिवारपरिवृता उज्जयिन्यां श्राविकापाचे उपाश्रयं मार्गयित्वा स्थिताऽस्ति ।
____ अथान्यदा सरस्वती साध्यपि निजभ्रासरं कालिकाचार्य वन्दित्वा यापन्निजोपाश्रयमागच्छति वर्मनि तावदुजयिनीनगरीस्वामिना गर्दभिलेन सा दृष्टा, चिन्तितं च तेन-एषा का ! एतादृशी सरूपा किं देवी वा किं विद्याधरी वा ! अथवा किनरी वा ! । इति संदेहेन निजपाचवचिसेवकाः पृष्टाः । तैरुक्तम्-हे महाराज ! एषा वसिंहराज्ञः पुत्री सरस्वतीनाम्नी कुमारिका सती निजभ्रातृस्नेहातिरेकात् साप्पी जाता। ततो गर्दभिलेन विधारिसम् अहो ! अनया तपसा कायः शोषितः, तथापि सुरूपत्वं न याति, यतः--
"काली सउही कस्तूरी, थोडी तउही तेजनतूरी । सूकी सउही बेउल सिरी, तूटी तउही मोती सिरी । भागउ तउही वराह, सुरउ तउही साह । निबलउ तउही गह, निर्गुण तउही नाह । पूरउ तउही साकर, निबलउ तउही ठाकुर ।
"Aho Shrutgyanam"