________________
२००
श्रीसमयसुन्दरगणिविरचिता तस्मिन् प्रस्तावे तत्र वने अनेकसाधुपरिवारवृताः श्रीगुणाकरसूरयो यथार्थनामानः समवसृताः सन्ति । परं ते कीदृशाः सन्ति !-'पडिरूवो तेयस्सिणो जुगप्पहाणागमो महुरवक्को गंभीरो धीइमंतो उवएसपरो अपरिस्साविणी सोमपइगणो, संगहसीलो अभिग्गहमइणो अविकत्थणो अचवलो पसंतहियया खंतिजुया महवजुया अजवजुया मुत्तिजुया तवस्सिणो, संजमपालगा सञ्चजुया सोयजुया अकिंचणा बंभचेरवासिणो अणिञ्चाइदुवालसभावणाभावगा' एवं ३६ षटत्रिंशत्सूरिगुणैः शोभमाना। पुनः कीदृशास्ते ?--जियकोहा जियमाणा जियमाया जियलोहा जियपरीसहा जियभया जियनिद्दा जियविगहा संसारपारगामिणो परमसंविग्गा संसारभवउब्विगा सुयसायरा करुणानिहिणो सन्वजीवसुहेसिणो दोहदंसिणो कुक्खिसंबला संपुण्णसुयबला निम्ममा निब्भमा निरहंकारा निम्विकारा मिच्छत्ततिमिरनासगा निरवज्जवासगा समत्तरयणदायगा गच्छनायगा' किं बहुना सर्वसाधुगुणसंपूर्णा । तेषां मेघगर्जितगम्भीरव्याख्यानध्वनि श्रुत्वा कुमारः केकीव हर्षितः सञ्जातविस्मयःअहो ! क ईदृग्मधुरध्वनिना धर्ममाख्याति !, तत्र गत्वा श्रूयते तदा चारु । ततो जातविवेकातिरेकः समुत्थाय तत्र गत्वा • सूरिगुरुं विनयेन नत्वा उचितस्थाने समुपविष्टः । राजपुत्रा विनयं कुर्वन्त्येव, यत उक्तम्----
विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितम् ।
अनृतं धुतकारेभ्यः, स्त्रीभ्यः शिक्षेत कैतवम् ॥१०॥ अथ च समृद्धः पुमान् विनयं कुर्वन् मृ(मि)टो लगति, यदुक्तम्--
पाई पढइ पढाई वखाणइ रूपवंतनई गाई जाणइ ।
रिद्धिवंतनइ विनय पउहइ सकरिसत्ये घेवर लुट्टइ ॥११॥ ततः श्रीसूरिभिः धर्मोपदेशः प्रारब्धो यथा-अहो कुमार ! इयं राज्यलक्ष्मीः चञ्चला दृश्यते, यदि न त्यज्यते तदा आरम्भपापपङ्कमग्नत्वेन दुर्गतौ गम्यते, यदुक्तम्----
गयफनचंचलाए, अपरिचत्ताई रायलच्छीए ।
जीवा सकम्मकलिमलभरियभरा तो पदंति अहे ॥१२॥ पुनरपि बुद्धिमतो मनुष्यस्य बुद्धेः तदेव फलं यत् पुण्यपापादौ तत्वविचारणा क्रियते, यत बाह--
बुद्धेः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च ।
अर्थस्य सारं किल पात्रदानं, वाचा फलं मीतिकरं नराणाम् ॥१३॥ पुनरपि शरीरादि सर्वमनित्यं ज्ञात्वा विवेकिना दीर्घदर्शिना मनुष्येण धर्मस्यैव संग्रहः कर्तव्यः, यत उक्तम्
अनित्यानि शरीराणि, विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥१४॥ तथा धर्मस्यापि पण्डितेन सुवर्णस्येव परीक्षा कार्या । यदवादि
यथा चतुर्भिः कनक परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः ।
तथैव धर्मो विदुषा परीक्ष्यते, श्रुतेन शीलेन तपो-दयागुणैः ॥१५॥ तत्रापि विंशतिविशोषकदयामयो जरामरणादिच्छेदकः चक्रवतितोऽप्यधिकसुखस्वरूपः संसारसमुद्रतारकः अजरामरशाश्वतसुखदायकः पञ्चमहानतरूपो यतिधर्म एव सर्वधर्मोत्तमः । एवं श्रीगुरुवचनश्रवणात् संसारस्यासारतां ज्ञात्वा संजातवैराग्यो भाग्यवान् श्रीकालिककुमारः प्रतिबुद्धः सन् करद्वयं संयोज्य विज्ञपयति स्म; हे भगवन् ! हे परोपकारवन् ! भवद्वचनेन अहं प्रतिबुद्धोऽस्मि, अथ यावन्निजगृहे गत्वा माता-पित्रोरनुमति लात्वा युष्मत्समीपे नायामि, तावत् श्रीगुरु
"Aho Shrutgyanam'