Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 360
________________ [२] अज्ञातसूरिविरचिता कालिकाचार्यकथा॥ ॥ ॐ नमः । श्रीजीरापल्लिपार्श्वनाथाय नमः ॥ श्रीवर्द्धमानपदपद्ममरालदेवं, श्रीवर्द्धमानमभिनम्य जिनेन्द्रदेवम् । किञ्चित् कथामुभयथा समयार्थभामां, वक्ष्याम्यहं मुगुरुकालिकसूरिराजाम् ॥१॥ अत्रैव माति नगरं भरतेऽलकामं, धारादिवासमिति पुण्यजनाप्तशोभम् । श्रीवैरिसिंह इति तत्र नृपः सुरीतिः, सत्याभिधाऽस्य दयिता सुरसुन्दरीति ॥२॥ तमन्दनोऽजनि सुकालिकनामधेयः, सन्नन्दनोज्ज्वळकलापटलैरमेयः । स क्रीडयन्नुपवनेऽन्यदिने, तुरङ्ग, द्वेधा गुणाकरमवाप गुरुं सरजम् ॥३॥ तद्देशनामृतरसं स रसान्निपीय, संपृच्छय सौवपितरौं' भवतो निरीय । संसेवितो नृपतनूद्भवपश्चशत्या, रणादुपायत चरित्ररमा विरत्या ॥४॥ पुण्योल्लसन्नवसुवर्णकपाश्मपट्टे, संस्थापितः मुगुरुणा गुरुणाऽऽत्मपट्टे । कुर्वन् क्रमेण विविधेव विहारमाला, सरिः समागमदिमां नगरौं विशालाम् ॥५॥ तत्रैव सूरेरनुजा सरस्वती, समाययो कर्मगतेमहासती । यान्ती बहिः स्थण्डिळमण्डलेऽन्यदा, साऽलोकि मालध्यमहीभुजा मदात् ॥६॥ हा शासनाधीश्वर ! हा सहोदर !, श्रीकालिकार्येति बहुपलापिनी । श्येनैरिबोडीननवीनमल्लिका, सान्तापुरेऽक्षेपि नृपेण पूरुषैः ॥७॥ श्रुत्वेति सौवाश्रयशैलगहराव, समेत्य सूरीश्वरकेशरी जवात् । तं मत्तमातङ्गमिवोल्लसन्मदं, नृपाधम माह नयद्रुमच्छिदम् ॥८॥ शशी यदि स्याद् विषदृष्टिमादधिर्मेरां चिमुश्चेत स चेदपानिधिः । अन्यायभाजो यदि भूभुजां व्रजास्तिष्ठन्ति जीवन्ति तदा कथं मजाः ? ॥९॥ महासती मुश्च कलङ्कपादपं, मा सिञ्च भूपानघवारि निक्षिपन् । महेशलङ्केशनरेश्वरादिवन्मा मा भव त्वं भवयुग्मनाशकृत् ॥१०॥ इतीरितं मूरिवचो नियत्याऽगलन्नृपे छिद्रकरेऽम्बुगत्या । अभाणि संघस्य तदा मुखेन, संघोऽपि नाऽमानि दुराशयेन ॥११॥ अमानितं संघवचो निशम्य, सर्वाङ्गरम्यः कृतिभिः प्रयम्यः । सिद्धान्तसारं मनसाऽधिगम्य, चित्ते गणी चिन्तयति स्म सम्यक् ॥१२॥ ये मत्पनीका अनघेऽपि सके, उड्डा[न?]कोपेक्षकदूषकाश्च । तेषां गति यामि कुगर्दमिल्लं, राज्यच्युतं चेन करोमि भिल्लम् ॥१३॥ 1 स्वीयपितरौ । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406