________________
[२] अज्ञातसूरिविरचिता कालिकाचार्यकथा॥
॥ ॐ नमः । श्रीजीरापल्लिपार्श्वनाथाय नमः ॥ श्रीवर्द्धमानपदपद्ममरालदेवं, श्रीवर्द्धमानमभिनम्य जिनेन्द्रदेवम् । किञ्चित् कथामुभयथा समयार्थभामां, वक्ष्याम्यहं मुगुरुकालिकसूरिराजाम् ॥१॥ अत्रैव माति नगरं भरतेऽलकामं, धारादिवासमिति पुण्यजनाप्तशोभम् । श्रीवैरिसिंह इति तत्र नृपः सुरीतिः, सत्याभिधाऽस्य दयिता सुरसुन्दरीति ॥२॥ तमन्दनोऽजनि सुकालिकनामधेयः, सन्नन्दनोज्ज्वळकलापटलैरमेयः । स क्रीडयन्नुपवनेऽन्यदिने, तुरङ्ग, द्वेधा गुणाकरमवाप गुरुं सरजम् ॥३॥ तद्देशनामृतरसं स रसान्निपीय, संपृच्छय सौवपितरौं' भवतो निरीय । संसेवितो नृपतनूद्भवपश्चशत्या, रणादुपायत चरित्ररमा विरत्या ॥४॥ पुण्योल्लसन्नवसुवर्णकपाश्मपट्टे, संस्थापितः मुगुरुणा गुरुणाऽऽत्मपट्टे । कुर्वन् क्रमेण विविधेव विहारमाला, सरिः समागमदिमां नगरौं विशालाम् ॥५॥ तत्रैव सूरेरनुजा सरस्वती, समाययो कर्मगतेमहासती । यान्ती बहिः स्थण्डिळमण्डलेऽन्यदा, साऽलोकि मालध्यमहीभुजा मदात् ॥६॥ हा शासनाधीश्वर ! हा सहोदर !, श्रीकालिकार्येति बहुपलापिनी । श्येनैरिबोडीननवीनमल्लिका, सान्तापुरेऽक्षेपि नृपेण पूरुषैः ॥७॥ श्रुत्वेति सौवाश्रयशैलगहराव, समेत्य सूरीश्वरकेशरी जवात् । तं मत्तमातङ्गमिवोल्लसन्मदं, नृपाधम माह नयद्रुमच्छिदम् ॥८॥ शशी यदि स्याद् विषदृष्टिमादधिर्मेरां चिमुश्चेत स चेदपानिधिः । अन्यायभाजो यदि भूभुजां व्रजास्तिष्ठन्ति जीवन्ति तदा कथं मजाः ? ॥९॥ महासती मुश्च कलङ्कपादपं, मा सिञ्च भूपानघवारि निक्षिपन् । महेशलङ्केशनरेश्वरादिवन्मा मा भव त्वं भवयुग्मनाशकृत् ॥१०॥ इतीरितं मूरिवचो नियत्याऽगलन्नृपे छिद्रकरेऽम्बुगत्या । अभाणि संघस्य तदा मुखेन, संघोऽपि नाऽमानि दुराशयेन ॥११॥ अमानितं संघवचो निशम्य, सर्वाङ्गरम्यः कृतिभिः प्रयम्यः । सिद्धान्तसारं मनसाऽधिगम्य, चित्ते गणी चिन्तयति स्म सम्यक् ॥१२॥ ये मत्पनीका अनघेऽपि सके, उड्डा[न?]कोपेक्षकदूषकाश्च ।
तेषां गति यामि कुगर्दमिल्लं, राज्यच्युतं चेन करोमि भिल्लम् ॥१३॥ 1 स्वीयपितरौ ।
"Aho Shrutgyanam"