________________
कालिकाचार्यकथा।
१९१
क्षमध्वं कृतमस्माभिरपराध महत्तमम् । वालुकामस्थदृष्टान्तं, जगुस्तेषां पुरोऽथ ते ॥१४॥ गुरूणां वचनं श्रुत्वा, सुधामधुसहोदरम् । संयताः भूरिभक्ताय, संजातास्ते विशेषतः ॥९॥
इसश्च श्रीजिनं ब्रूते, विदेहे मघवाज्यदा । निगोददेशनां श्रुत्वा, सीमन्धरजिनोदिताम् ॥१६॥ विद्यते भरते कोऽपीहर निगोदविचारवान् । सन्तीति कालिकाचार्या[:], तदाकण्य मुदं दधौ ॥९७॥ स इन्द्रो विप्ररूपेणाचार्यपार्षमुपाययौ । पूज्या निगोदजीवानां, विचार कश्यतां मम ॥९८॥ जिनोक्तमिव तद्वाक्य, श्रुत्वा इपितमानसः ।। प्रादुःकृत्य स्वकं रूपमपतत् पादयोः गुरोः ॥१९॥ नत्वा गुरुं दिवं गच्छन् , मरिणा वारितः स च । वास्यन्ति कथमायान्तं, मषिष्यास्त्वां पुरन्दरम् ॥१०॥ अन्यदा तं करिष्यन्ति, मुनयोऽधिकधम्मिणः । . शालाद्वारं पराठत्य, गुरुन् नत्वा तिरोदधे ॥१०१॥ संपूर्णः स्वायुषः प्रान्ते, गृहीत्वाऽनशनवतम् ।। जग्मुः श्रीकालिकाचार्या, देवलोकं समाधिना ॥१०२॥ श्रीमदकेशगच्छीयाः, कर्मसागरपाठकाः । तच्छिष्यो देवकलोलोऽकार्षीत् हर्षात कथामिमाम् ॥१०॥ श्रीविक्रमनृपात् षट्पट्पचकमिति(१५६६) वच्छ(त्स)रे । जाता कथेयं मुनिभिर्वाचिता चन्दिता चि(चि)रम् ॥१०४॥
इति श्रीकालिकाचार्यकथा संपूर्णा ॥ शुभं भवतु ॥
कल्याणमस्तु ॥ श(शिवमस्तु चतुर्विधसंघस्य ।। A भादर्श प्रान्तोळेखः
सं. १५७६ वर्षे श्रीबृहद्गच्छे वा० श्रीदेवसागरछात्रबीजा-मेरा-रतनादिसहितेन लिखिता श्रीकालिकाचार्यकथा डभोकमामे । श्री॥
"Aho Shrutgyanam"