________________
१९०
श्रीदेवकल्लोलमुनिविरचिता
कृत्वा प्रवेशं गुरवः, स्थापिता [] पौषाये । प्रत्यहं समो भूपः शृणोति गुरुभाषितम् ॥७८॥ सोऽन्यदाऽवददस्माकं पञ्चम्यां कौमुदीमहः ।
,
तस्माद् विधीयतामेतं (त) व पर्व षष्ठीदिने प्रभो ! ॥७९॥ पश्चिमायामुदेत्यर्कः, शीतो वह्नि [ : ] मरुत् स्थिरः । कदाचिदेतद् भवति न कल्पः पञ्चमीं विना ॥८०॥ उक्त यदागमेऽपीति —
वर्षाकालीनपञ्चाशदि (दि) नैर्यातैर्दयोदयैः ।
तदा पर्युषणापर्व, कुरुते ज्ञातनन्दनः ॥ ८१ ॥
1
तस्य गच्छाधिपस्तद्वत् स्थविरा: साधवस्तथा । अर्वाक् पर्युषितं युक्तं, सिद्धान्तविधिनाऽधुना ॥ ८२ ॥ तच्चतुर्थ्यां पञ्चमीतः कृतं पर्व जिनोदितम् । तदाकर्ण्य हृदा तुष्टो नृपतिः शालिवाहनः ॥८३॥ तच्चक्रुः कालिकाचार्याः, सर्वसंघेन मानितम् | साधुपूजाsपरं नाम, पर्वणोऽस्य तदाऽभवत् ||८४ ॥ (*) गते काले कियत्यस्य, शिष्या जाताः ममादिनः । कर्मबन्धभयात् शिष्यान् मुक्त्वा शय्याखरं गताः ॥८५॥ तदग्रे शिष्यवृत्तान्तं सर्वे प्रोत्वा तथा वयम् | यास्यामः सागरं सूरि, शिष्यशिष्यं विचक्षणम् ॥८६॥ जग्मुः सागरसूरीणां पार्श्वस्तदुपाश्रये । तद्वयाख्यां छृणुयादेष, साधु सामान्यवेषभाक् ॥८७॥ देशनां स्वां समापय्य, समेत्य गुरुसंनिधौ जरद्रच ! श्रुता मे गी[:], संदेहं पृच्छहृद्गतम् ॥८८॥ धर्ममर्म स तैः पृष्टो, दातुमुत्तरमक्षमः । बाह्ये गत्वा समायामि, दास्ये पश्चात् तवोत्तरम् ॥८९॥ अयं बृहत्तरः सूरि[:], विद्यते किमु वा मुनिः । एवं विचिन्तय (यं) वित्ते, सूरियबद् बहिर्गतः ॥९०॥ श्रीकालिकविनेया हि तावत् ते साधवोsमिलन् । तैरुक्तं स्पष्टमस्माकमपराधेन दुमिता [ : ] ॥९१॥ युष्माकं संनिधौ प्राप्ता [:], सांप्रतं सुरयो न वा । इति श्रुत्वाऽभवत् सरिर्लज्जितश्च स्वचेतसि ॥९२॥ युग्मम् ॥ किं कर्तुमथ युक्तं नो विष्टमिति तत्र तैः । ततः संभूय भूयोऽपि, पेतुस्ते गुरुपादयोः ॥९३॥
" Aho Shrutgyanam"