Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 364
________________ श्रीअज्ञातसूरिविरचिता अथान्यदाऽऽनम्य मुदा जिनेन्द्र, सीमन्धरं तीर्थकरं सुरेन्द्रम् । पमच्छ सौधर्मपतिर्लिंगोदविचारणाकर्णनसममोदः ॥६१॥ विभोऽधुनाऽऽस्ते भरतेऽपि कश्चिनिगोदतत्त्वार्थविदे विपश्चित् । जिन घरोऽप्याह स कालिकार्यो, वेविद्यते सर्वविचारवर्यः ॥६२॥ विमस्य रूपेण समेत्य शक्रो, वेदं बदनात्मनि दम्भवक्रः । संभश्नयामास निगोदजीवविचारमेवं गुरुरुच्चचार ॥६३॥ एकैकशोऽसंख्यनिगोदभाजां, गोला असंख्या अखिलेऽपि लोके । जानीहि चैकैकनिगोदमध्ये, जीवाननन्तानिति सरिराह ॥६४॥ विज्ञाय पृष्टायुरथामरेन्द्रः , संभाषितः स्वीकृतस्वीयरूपः । सूरिं नमस्कृत्य तदालयस्य, द्वारं परावय जगाम धाम ॥६५॥ गीतार्थशिष्यं स्वपदं प्रदाय, समाधिना योऽनशनं विधाय । घामाप संघाय चतुर्विधाय, सः कालिकः सूरिवरः शिवाय ॥६६॥ इत्यं कालिकसरिराजचरितं सम्यकथाया मया, वृद्धाया(देभ्यो?) अवगम्य रम्यमहिमं संक्षेपतो भाषितम् । ये कल्पागमवाचने सविजया व्याख्यान्ति वर्षे प्रति, श्रीमन्तो विबुधवजे तिलकतां लब्ध्वा शिवं यान्ति ते ॥६॥ (शार्दूलविक्रीडितवृत्तम् ) ॥ इति श्रीकालिकाचार्यकथानकं समाप्तम् ॥ मंगलमस्तु श्रीसंघस्य छ|| श्री ॥१॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406