________________
श्रीअज्ञातसूरिविरचिता
अथान्यदाऽऽनम्य मुदा जिनेन्द्र, सीमन्धरं तीर्थकरं सुरेन्द्रम् । पमच्छ सौधर्मपतिर्लिंगोदविचारणाकर्णनसममोदः ॥६१॥ विभोऽधुनाऽऽस्ते भरतेऽपि कश्चिनिगोदतत्त्वार्थविदे विपश्चित् । जिन घरोऽप्याह स कालिकार्यो, वेविद्यते सर्वविचारवर्यः ॥६२॥ विमस्य रूपेण समेत्य शक्रो, वेदं बदनात्मनि दम्भवक्रः । संभश्नयामास निगोदजीवविचारमेवं गुरुरुच्चचार ॥६३॥ एकैकशोऽसंख्यनिगोदभाजां, गोला असंख्या अखिलेऽपि लोके । जानीहि चैकैकनिगोदमध्ये, जीवाननन्तानिति सरिराह ॥६४॥ विज्ञाय पृष्टायुरथामरेन्द्रः , संभाषितः स्वीकृतस्वीयरूपः । सूरिं नमस्कृत्य तदालयस्य, द्वारं परावय जगाम धाम ॥६५॥ गीतार्थशिष्यं स्वपदं प्रदाय, समाधिना योऽनशनं विधाय । घामाप संघाय चतुर्विधाय, सः कालिकः सूरिवरः शिवाय ॥६६॥ इत्यं कालिकसरिराजचरितं सम्यकथाया मया,
वृद्धाया(देभ्यो?) अवगम्य रम्यमहिमं संक्षेपतो भाषितम् । ये कल्पागमवाचने सविजया व्याख्यान्ति वर्षे प्रति, श्रीमन्तो विबुधवजे तिलकतां लब्ध्वा शिवं यान्ति ते ॥६॥
(शार्दूलविक्रीडितवृत्तम् ) ॥ इति श्रीकालिकाचार्यकथानकं समाप्तम् ॥ मंगलमस्तु श्रीसंघस्य छ|| श्री ॥१॥
"Aho Shrutgyanam"