________________
१९५
कालिकाचार्यकथा । प्रत्यक्षतस्तेऽत्र विरुद्ध एप, पक्षस्तथा हेतुरसिद्ध एव । वेदोक्तहिंसाकरणेन नूनं, दृष्टान्तकं भावदसाधनोनम् ॥४६॥ एवं प्रकारैः स कृतो निरुत्तरः, पुरोहितः मूरिषु पाद्यसादरः । वहनसूयां नगरेऽप्यनेषणामचीकरत् तामवबुध्य तत्क्षणात् ॥४७॥
आर्या महाराष्ट्रमहीविभूषणे, ययुः प्रतिष्ठानपुरेऽस्तदूषणे । तत्रास्ति भूमीपतिसालवाहना, सदाईतो विक्रममेघवाइना ॥४८॥ समागते पर्युषणाभिधाने, पर्वण्यथासन्नतरे प्रधाने । श्रीकालिकाचार्यपुरो विशेष, विश्वापतिविज्ञपयत्यशेषम् ॥४९॥ नभस्यमासोज्वळपञ्चमीदिने, शक्रोत्सवोऽत्र ग्रथितोऽखिले जने । षष्ठयां ततः पर्युषणा विधीयतां, ममैष मानः सुगुरो ! प्रदीयताम् ॥५०॥ विज्ञाय विज्ञप्तिमिमां नरेशितुः, स्मृत्वाऽऽह सूरिस समय जिनेशितः । न बध्यते पर्युषणाख्यवासरस्तां पञ्चमी चेचलतीह मन्दरः ॥५१॥ कुर्यात् तदागिति गा मुराजः, श्रुत्वा चतुर्थ्यामथ पर्वराजः । गणाधिपैस्तस्य महोपरोधादाधायि सिद्धान्तविधिमबोधात् ॥५२॥
अथान्यदा दुविनयं विनयजं विलोक्य प्रभुरेवमूचे । तपो निरर्थ किल कूलवाल-पाश्चालिकाजीवमहासतीवत् ॥५३॥ इत्यादिदृष्टान्तपरम्पराभिः, शिष्यानबुद्धानवबुद्धय ताभिः । एकः प्रभुस्तं निजशिष्यशिष्यं, सूरिं ययौ सागरचन्द्रकाख्यम् ॥५४॥ धर्मोपदेशं दिशतोऽस्य पाढे, श्रीकालिकार्योऽभिदधाति गादम् । नास्तीह धर्मों भुवि भूरिसत्तः, पञ्चप्रमाणाविषयात्मकत्वात् ॥५५॥ स्वपुण्यवन्ध्यातनयादिदृष्टदृष्टान्तभावै रसभाव इष्टः । अजातपुत्रस्य यथा न नाम, नासिद्धधर्मस्य तथाऽस्ति धाम ॥५६॥ श्रुत्वेति तां कर्कशतवाचं, विस्तारयन्तं मुनिवृद्धमेतम् । अहो! अयं कालिकसरितुल्यो, विचिन्तयन् सागरचन्द्र ऊचे ॥५॥ नेत्याश्रितोऽस्तीति पदमयोगः, पदद्वयस्यास्य विरोधयोगः । इत्युत्तरैः स्थापितधर्मक्षा, स सागरः माह फलैः समक्षम् ॥५८॥ श्रीसागरायो विहितस्वरूपः, सुवर्णभुष्यस्ति स सूरिभूपः । शय्यातरमापितसर्वभावाः, शिष्याः समागुः पुनरत्र भावात् ॥५९॥ गच्छस्य संगादवगम्य सूरिमसौं गुरुं क्षामयति स्म भूरि । स वालुकामस्थनिदर्शनेन, श्रीसूरिणाऽयोधि च सागरेन्द्रः ॥३०॥
"Aho Shrutgyanam"