________________
१९४
श्रीअज्ञातसरिविरचिता
कुन्तासिवाणप्रमुखस्य युद्धं, सैन्यद्वयस्याप्यजनि वित् ? ] प्रसिद्धम् । निजं बलं होनबलं विमृश्य, विवेश वर्म नृपतिः कुरश्यः ॥३०॥ शाले रिपूणां निकरण रुद्धे, प्रवर्त्तमानेऽथ सदैव युद्धे । सूरेः पुरः साइजनो जजल्प, प्रमोदकोट्टो ननु शून्यकल्पः ॥३१॥ आचार्यवर्याः स्वविदाऽवधार्य, मोचुस्तदा कार्यमिदं विचार्य ।। अधाष्टमीमाप्य स गर्दभिल्लो, विधां ध्रुवं साधयति स्वमल्लः ॥३२॥ दृष्ट्वा खरी सहचरी नृपतेः सुबोधैः, सरेरभाणि सहसा सह साहियोधैः । अष्टोसरं मटशवं लघुशब्दवेधि, संस्थाप्य सूरिवचनादितरन्यषेधि ॥३३॥ संपूरिते सुचिटते सरधोरणीभिः, खर्या मुखे रिपुभटैरसुचोरणीभिः । विद्धास्य मूर्द्धनि च मूत्रमलं दधाना, दृष्टा न केन कुपिता प्रपलायमाना ॥३४॥ स गर्दभिल्लोऽथ इतममावः, साहिमवीरेरशुभस्वभावः । निबध्य निन्ये सुगुरोः सकाशे, मलिम्लुचौपम्यधरश्वकाशे ॥३५।। रे धृष्ट ! दुष्टाधम ! पोपनिष्ठ, निकृष्ट । संघेन मयाऽवशिष्टः । तदा न कि चेतितवानसि स्वं, रेऽधापि तस्वं शृणु भाक्तत्वम् ॥३६॥ महासतीशीलविघातसवाऽपमानदानद्रुमपुष्पमेतत् । अनन्तसंसारपथमचारफलपकारस्तव भाव्यपारः ॥३७॥ आयुरिति प्रमाणितोऽपि कृपाईचित्तैर्दनः पुरातनवैरशुभैनिमित्तैः । पापः स एव निरवास्यत देशमध्यात् , साध्वी च सारचरणा विदधे विशुद्धया ॥३८॥ आलोच्य सर्वमपि दुष्कृतकमकार, मूरिर्वभार निजकं गुरुगच्छभारम् । ते साइयोऽपि गुरुपादपयोजइंसाः, कुर्वन्ति राज्यमनघं प्रथितपशंसाः ॥३९॥ समूलमुन्मूलितशाकवंशः, क्रमादभूद् विक्रमभूपतंसः । येनात्र यक्षाप्तवरत्रयेण, चक्रेऽनृणत्वं जगतोऽचिरेण ॥४०॥ संवत्सरोऽयं बढ़ते यदीया, शाकक्षितीशामपि(शस्य च) स द्वितीयः । तदेतदेवं प्रकृतं स्वरूपं, मसक्तोऽमण्यत भाविरूपम् ॥४१॥
आमन्त्रिता श्रीबलमित्र-भानुमित्राधिपाभ्यां भगिनीसुताभ्याम् । ययौ पुरं श्रीभृगुकच्छनाम, मूरीश्वरोऽयोज्ज्चलकीरिधाम ॥४२॥ श्रीकालिकाचार्यमुखारविन्दादापीय पुण्योक्तिमहामरन्दान् । दीक्षां पपेदे गुरुभागिनेयीभानुश्रियः श्रीबलभानुसूनुः ॥४३॥ नृपादिलोकं जिनधर्मलीनं, दृष्ट्वा गुरुपास्तिरसेन पीनम् । . क्रोधं पुरोधा बहुधा दधानः, सभासमक्षं गिरमाततान ॥४४॥ श्वेताम्बरा दर्शनबाबतत्त्वा वेदत्रयाचारनिवारकत्वात् । म्लेच्छादिवञ्चैव मुमुक्षुपक्षं, श्रुत्वा जगौ मूरिरितोऽअपलम् ॥४५॥
"Aho Shrutgyanam"