Book Title: Kalikacharya Kathasangraha
Author(s): Ambalal P Shah
Publisher: Kunvarji Hirji Naliya

View full book text
Previous | Next

Page 369
________________ कालिकाचार्यकथा । १९९ पुनरपि पुत्रोऽतिमूखों विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकाले च दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥७॥ पुनरपि ज्ञानेन विना मानवः पशुरेव, यतः आहार-निद्रा-भय-मैथुनानि, सामान्यमेतत् पशुभिर्नराणाम् । ज्ञान विशेषः खलु मानवानां, ज्ञानेन हीनाः पशवो मनुष्याः ॥८॥ ततः फलाचार्यसमीपे कलाग्रहणार्थ मुक्तः । कुमारोऽपि स्तोककालेन द्वासप्ततिकला(७२) जग्राह । तत्रापि विशेषतोऽश्वपरीक्षायां बाणकलायां च निपुणो जातः । अथ कालिककुमारः सर्वविद्यावान् मातृपितृभक्तोऽत्यन्तस्नेहक्त्या निजभगिन्या सरस्वत्या युक्तः सन् सुखेन कुमारपदवी भुनन् आस्ते । अथान्यदा श्रीवप्रसिंहराजः छत्रे धारयन् चामरैः वीज्यमानः सभामण्डपमागत्य सिंहासने उपविष्टः । तत्र कीशी सभा निविष्टाऽस्ति । यथा- अनेकगणनायक दण्डनायक मण्डलीक महामण्डलीक सामन्त महासामान्त चउरासीया मुहता मुग(कु)टवर्धकसंधिपाल दूतपाल सइगरणा वइगरणा देवगरणा यमगरणा संधिविग्रही परविग्रही सेठ सेनापति सार्थवाह व्यवहारिया संगरक्षक पुरोहित वृत्तिनायक भारवाहक थईयायत पडुपडियायत टाकटमाली इंद्रजाली फूलमाली मन्त्रवादी तन्त्रवादी यन्त्रवादी धर्मवादी ज्योतिर्वादी धनुर्वादी दण्डधर खड्गधर धनुर्धर छत्रधर चामरघर दोबाधर पुस्तकधर प्रतीहार खबरदार गजपाल अश्वपाल अङ्गमर्वक आरक्षक साचाबोला कथाबोला गुणबोला समस्याबोला साहित्यबंधक लक्षणबंधक छन्दबंधक अलंकारबंधक नाटकबंधक गीतबंधक ' इत्यादि वर्णकविराजिता। तदवसरे राज्ञः खुरसाणदेशादनेके अश्वाः प्राभृते कृते भागताः । परं कीदृशाः सन्ति ! । वर्णतः केऽपि 'नीलडा पीलडा कंबोजडा रातडा सबजिया अबजिया किवलीया धवलिया किहाडा किरडिया हरणिया मेषवरणिया काल्या धुसरा हांसला' लक्षणतोऽपि एवंविधाः---- निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयो:, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्षयोः पृथुतरं पृष्ठे प्रधान जवे, राजा वाजिनमारुरोह सकलैयुक्तं प्रशस्तैर्गुणैः ॥९॥ इत्यादि । ततो राज्ञा कालिककुमारस्य कथितम्-अहो कुमार ! बहिर्गत्वा एतेषां तुरङ्गमाणां परीक्षा क्रियताम् । ततः कुमारः तथेति प्रतिपद्य हृष्टः सन् सदृशवयस्कसेवकपश्चशतीयुतं तरलतरं तुरङ्गममेकमारुह्य क्रीडावने जगाम । परं तद् वनं कीदृशमस्ति ? । 'अंब निम्ब केलि कंकेल्लि वल्लि कणबीर करीर कुरबक आमलक केतकी केवडा कोविदार कचनारि कल्हार कउठ कंदूरी कर्मदा किंशुक ककच काकोदुम्बरि कर्कन्धू करन कपिकच्छू कमल कैरव कुवलय कोकनद कुरुविन्द करणा वरणा अशोक आंविली अखोड अगर तगर अरडूसउ अर्जुन अखरोट एरंड उंबर भरणी साग नाग पुन्नाग नारिंग पाडल पारिजात जांबू निंबू जंभीरी नालेरी फोग खेजडा वणखडा ताल तमाल सदाफल नागरवेलि वाल:वेउलि जाइ जूही दमणउ मख्यउ मोगरउ मचकुंद चांपउ' प्रमुखनानाविधवृक्षावलीविराजितम् । तस्मिन् वने बहुवेला अचवाहनिकां कृत्वा श्रमातुरः सन् कुमारः सपरिवारः सहकारतरोः छायायां तुरङ्गमादुत्तीर्य विशश्राम । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406